This page has not been fully proofread.

श्रीः ।
श्रीजयदेवकविविरचितं
 
गीतगोविन्दकाव्यम् ।
 
कुम्भनृपतिप्रणीतरसिकप्रियाख्यव्याख्यया
 
महामहोपाध्यायशंकर मिश्र निर्मितरसमञ्जर्याख्यव्याख्यया च
संवलितम् ।
प्रथमः सर्गः १
 
मेघैदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
 
रसिकप्रिया ।
 
कल्याणं कमलापतिर्दिशतु मे यः कौस्तुभे राधया
वीक्ष्य एवं प्रतिबिम्बितं प्रतियुवत्येषेति तर्काकुलम् ।
आश्लेषोन्मुखयापि मानपरया मन्वानया कैतवं
तिर्यग्वक्रितकन्धरं वलितया सासूयमालोकितः ॥ १ ॥
सोऽव्यान्मामरविन्दनाभ उदयद्यन्नाभिपद्मालया
पद्मा पद्मविनीलमीलन विधिप्रावीण्यवन्नेत्रयोः ।
योगादर्धनिमीलिताम्बुजवशात्संभोगभोगेतरा-
वस्थाद्वन्द्वभवानुभूतिजनितक्रीडासुखान्यन्वभूत् ॥ २ ॥
दिश्यान्मेऽर्धशिवातनुः स भगवान्नित्योदितां संपदं
शम्भुर्विश्वजयश्रियः परवशी कारैकसत्कार्मणम् ।
यत्रैकाङ्गनवीन विभ्रमरसादेकानगुप्तेरना-
खादात्संभवदद्भुतैकपरमा जागर्ति हेमाद्विजा ॥ ३ ॥
नत्वा मतङ्गभरतप्रमुखान्सुगीत-
संगीतशास्त्रनिपुणाञ्जय देववाचाम् ।
 
चक्रधर जोशी
 
रसमञ्जरी
 
शंकरजगदम्बिकोरके पकेन खेलन्तम् ।
लम्बोदरमवलम्बे यं वेद न तत्त्वतो वेदः ॥ १ ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri