2022-10-18 07:37:00 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
कतिपयसंवत्सरेभ्यः पूर्वं मदभ्यर्थनयैव मन्निकटे प्रेषितमासीत् । लेखकप्रमादप्रचु-
राभ्यां निरुक्तादर्शपुस्तकाभ्यां यथामति संशोध्य प्रकाशितेयं टीका रसिकमनोविनो-
दनाय । एतट्टीकाकर्ता श्रीकुम्भनृपतिस्तु संप्रति लोके "मेवाड" इति नाम्ना प्रसिद्धे
मेदपाटदेशे राज्यं चकारेति टीकावतरणिकात एव ज्ञायते । अस्य राज्यसमयस्तु
ख्रिस्तसंवत्सरस्य चतुर्दशशतकस्य प्रथमपाद आसीदितीतिहासतोऽवगम्यते ।
अत्र प्रकाशिता द्वितीया टीका रसमञ्जर्याख्या तु महामहोपाध्यायश्रीदिनेश्वरात्मजेन
महामहोपाध्यायश्रीशंकरमिश्रेण संप्रत्यज्ञातकुलादिविशेषणस्य श्रीशालिनाथाभिधानस्य
पुरुषस्याज्ञया विरचितेति टीकापुष्पिकातो ज्ञायते । एतट्टीकाया आदर्शपुस्तकमेकम-
स्मत्सृहृद्वरैः श्रीमद्भिः पणशीकरोपाह्वैर्वासुदेवशास्त्रिभिर्महता प्रयत्नेन संपादितम् ।
तदनुरोधेन च संशोध्य प्रकाशितेयमपि टीकात्र बालोपयोगितया ।
उभयटीकानुसारेण पाठान्तराण्यपि टिप्पणीषु नियोजितान्यस्मिन्संस्करणे मूल-
विवेकार्थम् ।
एतत्पुस्तकस्य मुद्रितपत्रसंशोधनकर्मणि प्रथमं श्रीमद्भिर्वासुदेवशास्त्रिभिः कियत्सा-
ह्याय्यं कृतम् । किंतु अग्रे मानुषस्वभावसुलभशरीरास्वास्थ्यवशात्स्वदेशं प्रति यातेषु
तेषु निरुक्तसंशोधनकर्म मय्येवापतत् । अतः प्रमादाद्यत्किञ्चिन्न्यूनमत्र दृश्येत तत्पर-
मदयालुभिः सुधीभिः क्षन्तव्यमिति सविनयं प्रार्थयति --
विद्वदनुचरः
<bold>तेलङ्गोपाख्यो रामकृष्णसूनुर्मङ्गेशशर्मा ।</bold>