2022-10-18 07:28:22 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
स्नात्वा पाद्यादिभिश्चैव पूजयामास भक्तितः ।
तस्मिन्सप्तदिनं तत्र दिव्यदेही बभूव सः ॥
एवमन्येऽपि ये तत्र यं यं कृत्वा मनोरथम् ।
स्नानपूजादिकं चक्रुरापुस्तेऽखिलमीप्सितम् ॥
इत्येतज्जयदेवस्य माहात्म्यं कथितं मया ।
यः पठेच्छृणुयादेतत्तस्य भक्तिर्दृढा भवेत् ॥
कामी कामानवाप्येत जगन्नाथप्रसादतः ।
उत्तमां गतिमाप्नोति दुर्लभामपि योगिनाम् ॥
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नामैकचत्वारिंशः सर्गः ॥" इति ।
•
DA
श्रीयुतमहामहोपाध्यायश्रीदुर्गाप्रसाद पण्डितैः काव्यमालायां प्रकाशितायाः श्रीगो-
वर्धनाचार्यप्रणीतार्यासप्तशत्याष्टिप्पणे जयदेवकविसमयो युक्त्या निर्णीतः । तथाहि -
'जै-
"ज[^१]यदेवकविश्च वङ्गदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासी दिति
श्रीसनातनगोस्वामिनां मतम् ।'"गोवर्धनश्च शरणो जयदेव उमापतिः । कविराजश्च
रत्नानि समितौ लक्ष्मणस्य च ॥" इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलाया-
मुत्कीर्ण आसीत् । तस्माद्गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति
केचित् । लक्ष्मणसेनश्च ख्रिस्त संवत्सरस्यैकादशशतकसमाप्तिपर्यन्तं वङ्गदेशं पालया-
मासेति केचिदितिहास विदः'" इति । अतो जयदेव कविजीवन समयोऽपि ख्रिस्त संवत्सर-
स्यैकादशशतक आसीदिति फलितार्थः ।
जयदेवकविकृतो गीतगोविन्दकाव्यादन्यः कोऽपिप्ग्रन्थो लोके न क्वापि श्रुतो
नापि प्रसिद्धः । प्रसन्नराघवनाटककर्ता जयदेवस्तु कौण्डिन्यगोत्रोद्भवः सुमित्राकु·
-
क्षिजन्मा महादेवतनयः । शृङ्गारमाधवीय चम्पूप्रणेता जयदेवश्च अज्ञातपितृनामादिकः
कृ[^३]ष्णदासेत्युपपदवान् । अत उभावप्येतौ गीतगोविन्दकाव्यप्रणेतुर्जयदेवाद्भिन्नाविति
सुविशद मेतत् ।
गीतगोविन्दकाव्यस्थं'"उन्मीलन्मधुगन्धलुब्ध'" इत्यादिपद्यं ख्रिस्तवर्षीयचतुर्दशश-
तकसमुद्भवेन वशङ्गदेशीयेन श्री विश्वनाथ कविराजेन स्वकृतसाहित्यदर्पणाख्यग्रन्थस्य
दशमपरिच्छेदे वृत्त्यनुप्रासोदाहरणतयोपन्यस्तं दृश्यते । एतेन तत्कालीना विद्वां-
सोऽपि गीतगोविन्दकाव्यं सत्काव्यतया स्वीचक्रुरिति ज्ञायते ।
अत्र प्रकाशितयोष्टीकयोर्मध्ये प्रथमा तावद्रसिकप्रियाख्या श्रीकुम्भनृपतिविर-
चिता । अस्या आदर्श पुस्तकद्वयमस्मत्सुहृत्तमैः महामहोपाध्यायश्रीमद्दुर्गाप्रसादपण्डितैः
[^१.] काव्यमालायां प्रकाशितस्य आर्यासप्तशतीग्रन्थस्य प्रथमपृष्ठस्थटिप्पण्यां द्रष्टव्यम् ।
[^२.] प्रसन्नराघवनाटकप्रस्तावनायां'"विलासो यद्वाचां'" इत्यादि तथा, '"लक्ष्मणस्येव'" इत्यादि-
श्लोकद्वयं द्रष्टव्यम् । ( निर्णयसागरमुद्रितपुस्तकस्य पृ० ५).
[^३.] शृङ्गारमाधवीयचम्ध्प्वादौ मङ्गलाचरणश्लोके द्रष्टव्यम् । इयं चम्पूः नाद्यापि काक्वापि मुद्रयित्वा
प्रकाशिता च । अस्या हस्तलिखितमपूर्ण पुस्तकमेकं मया दृष्टमासीत् ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
तस्मिन्सप्तदिनं तत्र दिव्यदेही बभूव सः ॥
एवमन्येऽपि ये तत्र यं यं कृत्वा मनोरथम् ।
स्नानपूजादिकं चक्रुरापुस्तेऽखिलमीप्सितम् ॥
इत्येतज्जयदेवस्य माहात्म्यं कथितं मया ।
यः पठेच्छृणुयादेतत्तस्य भक्तिर्दृढा भवेत् ॥
कामी कामानवाप्येत जगन्नाथप्रसादतः ।
उत्तमां गतिमाप्नोति दुर्लभामपि योगिनाम् ॥
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नामैकचत्वारिंशः सर्गः ॥" इति ।
•
DA
श्रीयुतमहामहोपाध्यायश्रीदुर्गाप्रसाद
वर्धनाचार्यप्रणीतार्यासप्तशत्याष्टिप्पणे जयदेवकविसमयो युक्त्या निर्णीतः । तथाहि -
'जै
"ज[^१]यदेवकविश्च वङ्गदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासी
श्रीसनातनगोस्वामिनां मतम् ।
रत्नानि समितौ लक्ष्मणस्य च ॥" इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलाया-
मुत्कीर्ण आसीत् । तस्माद्गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति
केचित् । लक्ष्मणसेनश्च ख्रिस्त
मासेति केचिदितिहास
स्यैकादशशतक आसीदिति फलितार्थः ।
जयदेवकविकृतो गीतगोविन्दकाव्यादन्यः कोऽपि
नापि प्रसिद्धः । प्रसन्नराघवनाटककर्ता जयदेवस्तु कौण्डिन्यगोत्रोद्भवः सुमित्राकु
क्षिजन्मा महादेवतनयः । शृङ्गारमाधवीय
कृ[^३]ष्णदासेत्युपपदवान् । अत उभावप्येतौ गीतगोविन्दकाव्यप्रणेतुर्जयदेवाद्भिन्नाविति
सुविशद
गीतगोविन्दकाव्यस्थं
तकसमुद्भवेन व
दशमपरिच्छेदे वृत्त्यनुप्रासोदाहरणतयोपन्यस्तं दृश्यते । एतेन तत्कालीना विद्वां-
सोऽपि गीतगोविन्दकाव्यं सत्काव्यतया स्वीचक्रुरिति ज्ञायते ।
अत्र प्रकाशितयोष्टीकयोर्मध्ये प्रथमा तावद्रसिकप्रियाख्या श्रीकुम्भनृपतिविर-
चिता । अस्या आदर्श
[^१.] काव्यमालायां प्रकाशितस्य आर्यासप्तशतीग्रन्थस्य प्रथमपृष्ठस्थटिप्पण्यां द्रष्टव्यम् ।
[^२.] प्रसन्नराघवनाटकप्रस्तावनायां
श्लोकद्वयं द्रष्टव्यम् । ( निर्णयसागरमुद्रितपुस्तकस्य पृ० ५).
[^३.] शृङ्गारमाधवीयचम्
प्रकाशिता च । अस्या हस्तलिखितमपूर्ण
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri