This page has been fully proofread once and needs a second look.

शुक्लाम्बरधरा काचिच्छुक्ला मकरवाहना ।

पद्महस्तार विन्दाक्षी समागत्याब्रवीदिदम् ॥

 
अहं भागीरथी देवी प्रातरादिनिरन्तरम् ।

जयदेवस्य वाप्यां वै निवसिष्याम्यसंशयम् ॥

 
जानीहि प्रत्यहं तत्र पद्ममेतन्मया सह ।

आविर्भविष्यति जले द्रष्टव्यं भवता पुनः ॥

 
अयं तु जयदेवो मे भक्तोऽतीव प्रियः सदा ।
तु

नैतस्य व्रतभङ्गोऽस्ति वाप्यां स्नानं करोत्वयम् ॥

 
त्वयापि बोधनीयः स नान्यथा मम भाषितम् ।

किं चान्यः प्रत्ययस्तत्र प्रोच्यते तन्निशामय ॥

 
जयदेवेन सार्धं तु गलत्कुष्ठोऽपि तत्र चेत् ।

कुष्ठरोगात्प्रमुच्येत स्नातः सप्तदिनादपि ॥

 
एवं स्वप्नं प्रपश्यन्तः प्रबुद्धास्ते समागताः ।

एकाग्रे स्वप्नमूचुर्वै कथां कृत्वा परस्परम् ॥

 
नृपोऽमात्यैर्ग्रामवृद्धैर्जयदेवस्य मन्दिरम् ।

समागत्यात्ब्रवीत्सर्वं जयदेवाय भूपतिः ॥

 
श्रुत्वा तज्जयदेवस्तु निजस्वप्नं स्मरन्हृदि ।

नृपादीन्प्राह धन्या वै भवन्तो नात्र संशयः ॥

 
यैर्दृष्टा जाह्नवी देवी स्वप्ने श्रीरिव रूपिणी ।

किमाश्चर्यं भवद्भिर्यद्दृष्टं स्वप्नेतिदुर्लभम् ॥

 
जगन्मान्या जगन्माता जगदुद्धारकारिणी ।

आगमिष्यति वाप्यां सा सत्यमेतन्न संशयः ॥

 
इत्युक्त्वा नृपतिस्तूष्णीं सामात्यः सपुरोहितः ।

सदारस्तत्र स्नानीयं गृहीत्वा समुपाययौ ॥

 
जयदेवोऽपि पूजार्थमर्घादीन्परिकल्प्य च ।

जगाम तत्र वाप्यां तु स्नातुं पद्मावतीयुतः ॥

 
तत्र वापीसमीपे तु गत्वा ते तु नृपादयः ।

जयदेवं पुरस्कृत्य सर्वे तत्रावतस्थिरे ॥

 
जयदेवोऽथ स्नानीयं मन्त्रं भक्त्या पठञ्जले ।

प्रविवेश तदा गङ्गा तत्र प्रादुर्बभूव ह ॥

 
ऊर्मितं तज्जलं जातं दुग्धकुन्देन्दुनिर्मलम् ।

तादृशी सिकता जाता यथा गङ्गासरित्स्थिता ॥

 
प्रादुर्बभूव पद्मं तज्जले दृष्ट्वातिहर्षिताः ।

राजा च जयदेवश्च तथान्ये ये समागताः ॥

 
तुष्टुवुस्तां जनास्तत्र गङ्गां त्रिपथगामिनीम् ।

जयदेवोऽपि हर्षाश्रुपरिक्लि जहन्नदृगम्बुजः ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri