2022-11-12 07:36:05 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
तीर्थवरकारिणी पूर्वजोद्धारिणी हिमशैलपाषाणभेदे ।
नागरं प्लावयसि पूरयसि सागरं संगता विन्ध्यगिरिपादे ॥ नमो० ॥४॥
शुभसलिलनिर्धौतपुलिनवति कुर्वतस्तव नामनिर्मलालापम् ।
वन्दिता वीक्षिता चिन्तितावगाहिता मज्जिता मम हरसि पापम् ॥ न० ५
इह निखिलमुनिगणैरिह निखिलसुरगणैरिह निखिलवेदैरुदारे ।
पीयसे गीयसे स्तूयसे जह्नुमुनिकन्यके संसारसारे ॥ न० ॥ ६ ॥
गण्डूषमिह मेऽघशतमधिजयतु तव करनिकरगम्भीरतोये ।
परलोकबन्धुरसि सुन्दरसिन्धुरसि तटिनि सुरसदनसाधनोपाये ॥ न०७
इति रामलक्ष्मणकौशिकानुज्ञया सुरसरित्कृतनमस्कारम् ।
भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि भवजलधिपारम् ॥ न०८
<bold>इति गङ्गास्तवप्रबन्धः समाप्तः ।</bold>
<pratika>तीर्थवरेति ।</pratika> हे हिमशेलस्य हिमाचलस्य पाषाणानां भेदो भेदनं यस्यास्तस्याः संबुद्धौ
त्वं तीर्थवरस्य श्रेष्ठतीर्थस्य कारिणी असि । पुनः कीदृशी । पूर्वजानामुद्धारिण्यसि ।
हे गङ्गे, त्वं नगराणां समुदायो विद्यते यत्र तन्नागरं भूमण्डलं प्लावयसि पूर्णं करोषि ।
पुनः कीदृशी । सागरं समुद्रं पूरयसि । पुनः कीदृशी । विन्ध्यगिरिपादे विन्ध्याचलमूले
संगता मिलितासि ॥ ४ ॥ <pratika>शुभेति ।</pratika> हे शुभसलिलेन पवित्रोदकेन निर्धौतं क्षालितं
यत्पुलिनं तटं तदस्ति यस्यास्तस्याः संबुद्धौ । त्वं मम पापं हरसि नाशयसि । कथंभूतस्य
मम । तव नाम्नो यो निर्मलालापः पवित्रालापस्तं कुर्वतः । कथंभूता त्वम् । वन्दिता
नमस्कृता । वीक्षिता दृष्टा । चिन्तिता स्मृता । अवगाहिता प्रविष्टा । मज्जिता स्नाता
सती एभिः प्रकारैः पापं हरसि ॥ ५ ॥ <pratika>इहेति ।</pratika> हे उदारे वदान्ये । हे संसारसारे ।
संसारे सारभूता त्वमसीत्यर्थः । हे जह्नुमुनिकन्यके हे जाह्नवि, त्वमिह संसारे । अथवा
ब्रह्माण्डे निखिलमुनिगणैः समग्रमुनिसमूहैः पीयसे । इह निखिलदेवगणैः समग्रदेवस-
मूहैः गीयसे । निखिलवेदैः समस्तवेदैः स्तूयसे ॥ ६ ॥ <pratika>गण्डूषमिति ।</pratika> हे करनिक-
रगम्भीरतोये कराणां लहरीणां निकरः समूहस्तेन गम्मीरमक्षोभ्यं तोयं यस्यास्तस्याः
संबुद्धौ हे सुरसदनसाधनोपाये । सुराणां देवानां सदनं स्थानं तस्य साधनं प्राप्ति-
स्तस्योपायभूते । हे तटिनि तटवति हे गङ्गे, त्वं परलोकबन्धुः परलोके बन्धुरूपासि ।
पुनः कथंभूतासि । सुन्दराणां देवानां सिन्धुर्नद्यसि । अतस्तव गण्डूषमाचमनं मे मम
अघशतं पातकशतमधिजयतु नाशयतु । इहास्मिंल्लोके ॥ ७ ॥ <pratika>इति रामेति ।</pratika>
रामलक्ष्मणकौशिकानुज्ञया । कौशिको विश्वामित्रः । रामलक्ष्मणकौशिकानामनुज्ञया
आज्ञया । सुरसरितो गङ्गायाः कृतो नमस्कारो यस्यां क्रियायां यथा भवति तथा ।
सादरमादरपूर्वकं यथा भवति तथा । इति पूर्वोक्तप्रकारेण । इहास्मिंल्लोके भणन्तं
कथयन्तं धीरजयदेवकविं भवजलधिपारं भवरूपो यो जलधिः समुद्रस्तस्य पारमन्त-
मुत्तारयसि प्रापयसीत्यर्थः ॥ ८ ॥ इति श्रीजयदेवकृतगङ्गास्तवप्रबन्धटीका समाप्ता ॥