This page has been fully proofread once and needs a second look.

१७६
 
गङ्गास्तवप्रबन्धः ।
 
तीर्थवरकारिणी पूर्वजोद्धारिणी हिमशैलपाषाणभेदे ।
 
M
 

नागरं प्लावयसि पूरयसि सागरं संगता विन्ध्यगिरिपादे ॥ नमो० ॥४॥

 
शुभस लिलनिर्धौतपुलिनवति कुर्वतस्तव नामनिर्मलालापम् ।

वन्दिता वीक्षिता चिन्तितावगाहिता मज्जिता मम हरसि पापम् ॥ न०

 
इह निखिलमुनिगणैरिह निखिलसुरगणैरिह निखिलवेदैरुदारे । IPF

पीयसे गीयसे स्तूयसे जहुह्नुमुनिकन्यके संसारसारे ॥ न० ॥ ६ ॥

 
गण्डूषमिह मेऽघशतमधिजयतु तव करनिकर गम्भीरतोये ।

परलोकबन्धुरसि सुन्दरसिन्धुरसि तटिनि सुरसदनसाधनोपाये ॥ न ०७

 
इति रामलक्ष्मणकौशिकानुज्ञया सुरसरित्कृतनमस्कारम् ।
 

भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि भवजलधिपारम् ॥ न०८

 
<bold>
इति गङ्गास्तव प्रबन्धः समाप्तः ।
 

 
</bold>
 
<pratika>
तीर्थवरेति ।</pratika> हे हिमशेलस्य हिमाचलस्य पाषाणानां भेदो भेदनं यस्यास्तस्याः संबुद्धौ

त्वं तीर्थंवरस्य श्रेष्ठतीर्थस्य कारिणी असि । पुनः कीदृशी । पूर्वजानामुद्धारिण्यसि ।

हे गङ्गे, त्वं नगराणां समुदायो विद्यते यत्र तन्नागरं भूमण्डलं प्लावयसि पूर्णं करोषि ।

पुनः कीदृशी । सागरं समुद्रं पूरयसि । पुनः कीदृशी । विन्ध्यगिरिपादे विन्ध्याचलमूले

संगता मिलितासि ॥ ४ ॥ <pratika>शुभेति ।</pratika> हे शुभसलिलेन पवित्रोदकेन निर्धौतं क्षालितं

यत्पुलिनं तटं तदस्ति यस्यास्तस्याः संबुद्धौ । त्वं मम पापं हरसि नाशयसि । कथंभूतस्य

मम । तव नाम्नो यो निर्मलालापः पवित्रालापस्तं कुर्वतः । कथंभूता त्वम् । वन्दिता

नमस्कृता । वीक्षिता दृष्टा । चिन्तिता स्मृता । अवगाहिता प्रविष्टा । मज्जिता स्नाता

सती एभिः प्रकारैः पापं हरसि ॥ ५ ॥ <pratika>इहेति ।</pratika> हे उदारे वदान्ये । हे संसारसारे ।

संसारे सारभूता त्वमसीत्यर्थ:थः । हे जहुह्नुमुनिकन्यके हे जाह्नवि, त्वमिह संसारे । अथवा

ब्रह्माण्डे निखिलमुनिगणैः समग्रमुनिसमूहैः पीयसे । इह निखिलदेवगणैः समप्ग्रदेवस-

मूहैः गीयसे । निखिलवेदैः समस्तवेदैः स्तूयसे ॥ ६ ॥ <pratika>गण्डूषमिति ।</pratika> हे करनिक-

रगम्भीरतोये कराणां लहरीणां निकरः समूहस्तेन गम्मीरमक्षोभ्यं तोयं यस्यास्तस्याः

संबुद्धौ हे सुरसदनसाधनोपाये । सुराणां देवानां सदनं स्थानं तस्य साधनं प्राप्ति
-
स्तस्योपायभूते । हे तटिनि तटवति हे गङ्गे, त्वं परलोकबन्धुः परलोके बन्धुरूपासि ।

पुनः कथंभूतासि । सुन्दराणां देवानां सिन्धुर्नद्यसि । अतस्तव गण्डूषमाचमनं मे मम

अघशतं पातकशतमधिजयतु नाशयतु । इहास्मिमिंल्लोके ॥ ७ ॥ <pratika>इति रामेति ।
</pratika>
रामलक्ष्मणकौशिकानुज्ञया । कौशिको विश्वामित्रः । रामलक्ष्मणकौशिकानामनुज्ञया

आज्ञया । सुरसरितो गङ्गायाः कृतो नमस्कारो यस्यां क्रियायां यथा भवति तथा ।

सादरमादरपूर्वकं यथा भवति तथा । इति पूर्वोक्तप्रकारेण । इहास्मिमिंल्लोके भणन्तं

कथयन्तं धीरजयदेवकविं भवजलधिपारं भवरूपो यो जलधिः समुद्रस्तस्य पारमन्त-

मुत्तारयसि प्रापयसीत्यर्थः ॥ ८ ॥ इति श्रीजय देवकृत गङ्गास्तप्रबन्धटीका समाप्ता
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri