This page has been fully proofread once and needs a second look.

<bold>गङ्गास्तवप्र[^१]बन्धः ।</bold>
 
मधुमथनमूर्तिवर इन्दुकरकामुकं वहसि बहु वारि सुतरङ्गे ।
हरिचरणनखभिदुरजगदण्डनिर्गता ब्रह्मजलपात्रकृतसङ्गे ॥ १ ॥
 
नमो देवि गङ्गे नमो देवि गङ्गे हर निखिलमघमलकनन्दे ॥ ध्रुवम् ॥
 
त्वमसि जनपाविनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारे ।
कनकगिरिलङ्घिते सकलमुनिवन्दिते हरमुकुटसितकुसुममाले ॥ न० २
 
सगरसुतसङ्गमे लसदमरसुन्दरीदूतिके दुष्कृतिदुरापे ।
निरयगतिबाधिके निर्वाणसाधिके भक्तजनहृतसंतापे ॥ नमो० ॥ ३ ॥
 
<pratika>मधुमथनेति ।</pratika> हे देवि, हे गङ्गे, तुभ्यं नमः । आदरे द्विरुक्तिः । हे अलकनन्दे,
त्वं निखिलं समग्रमघं पातकं हर नाशय । मधुमथनस्य श्रीकृष्णस्य या मूर्तयस्तासां
वरा श्रेष्ठा तस्याः संबुद्धौ हे मधुमथनमूर्तिवरे, त्वं बहुवारि अतिजलं वहसि ।
सुष्ठु उत्तमास्तरङ्गा यस्यास्तस्याः संबुद्धौ । हे ब्रह्मजलपात्रकृतसङ्गे, त्वं हरिचरण-
नखैर्भिदुरं भिन्नं यज्जगतोऽण्डं ब्रह्माण्डं तस्मान्निर्गतासि प्रकटितासि ॥ १ ॥ <pratika>त्वम-
सीति ।</pratika> हे सप्तर्षिकुलस्य सुकृतं पुण्यं तस्य सारे सारभूते । कनकगिरिर्मेरुर्लङ्घित
उल्लङ्घतो यया तस्याः संबुद्धौ हे कनकगिरिलते, हे सकलैः समस्तैर्मुनिभिर्व-
न्दिते । हे हरमुकुटस्य सितकुसुमानां श्वेतपुष्पाणां माले मालाभूते । त्वं जनानां
विश्वेषां पावनी पवित्रकर्त्री असि । पुनः कीदृशी । चत्वारश्च ते उदधयश्च तान्प्रति
गच्छति सा चतुरुदधिगामिनी असि ॥ २ ॥ <pratika>सगरेति ।</pratika> हे सागरसुतसङ्गमे सगर-
सुतानां सङ्गमो यस्यास्तस्याः संबुद्धौ । सङ्गमेन पावनकर्त्रीत्यर्थः । हे लसन्त्यः शोभ-
माना या अमरसुन्दर्यो देवाङ्गनास्तासां दूतिके प्रापिके । हे दुष्कृतिभिर्दुष्कर्मकारि-
भिर्दुःखेनाप्तुमशक्ये। हे निर॒यगतिबाधिके नरकगतिनिवारिके । हे निर्वाणसाधिके मो-
क्षप्रदे । हे भक्तजनहृतसंतापे, भक्तजनानां हृतः संतापो यया तस्याः संबुद्धिः ॥३॥
 
[^१.] यद्यप्यस्य प्रबन्धस्य "भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि" इत्याद्यन्तिमपदा-
र्थेन गीतगोविन्दकर्तृजयदेवकविप्रणीतत्वमापाततस्तर्क्यते, तथापि गीतगोविन्दस्थाखिलप्र-
बन्धसाधारणानां पदलालित्य–रचनाचातुरी-कल्पनाचमत्कार-वर्णननैपुण्यादीनां—
निरुक्तजयदेवकृतित्वानुमापकानामत्र लेशतोऽप्यनधिगमान्नायं प्रबन्धो गीतगोविन्दकाव्यकर्तुः
श्रीजयदेवस्य कृतिरिति बलीयोऽनुमानं विजृम्भतेतराम् । अतोऽस्य प्रबन्धस्य प्रणेता निरु-
क्तजयदेवाद्भिन्नो धीरजयदेवनामा अन्यः कोऽपि कविः स्यादिति निष्कर्षः ।
अस्य च प्रबन्धस्य हस्तलिखितं द्वित्रपत्रात्मकं सटीकं पुस्तकमेकमस्मत्सुहृद्वरैः श्रीयुतैः
"बी. ए." इत्युपपदधारिभिः "तनसुखराम मनसुखराम त्रिपाठी" इत्येतैरस्मन्निकटे
प्रेषितम् । तदनुरोधेनैव सोऽयं क्वाप्यमुद्रितचरः प्रबन्धो रसिकजनप्रीत्यै मुद्रयित्वा प्राकाश्यं
नीत इत्यलं विस्तरेण ॥