This page has been fully proofread once and needs a second look.

<bold>गङ्गास्तवर्ध्रप्र[^१]बन्धः ।
 
शिकार
 
NOWONT
 

 
मधुमथनमूर्तिवर इन्दुकरकामुकं वहसि बहु वारि सुतरङ्गे ।

हरिचरणनखभिदुरजगदण्डनिर्गता ब्रह्मजलपात्रकृतसङ्गे ॥ १ ॥

 
नमो देवि गङ्गे नमो देवि गङ्गे हर निखिलमघमलकनन्दे ॥ ध्रुवम् ॥

 
त्वमसि जनपाविनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारे ।

कनकगिरिलविङ्घिते सकलमुनिंनिवन्दिते हरमुकुटसितकुसुममाले ॥ न० २

 
सगरसुतसङ्गमे लसदमरसुन्दरीदूतिके दुष्कृतिदुरापे ।

निरयगतिबाधिके निर्वाणसाधिके भक्तजनहृतसंतापे ॥ नमो० ॥ ३ ॥
 

 
<pratika>
मधुमथनेति ।</pratika> हे देवि, हे गङ्गे, तुभ्यं नमः । आदरे द्विरुक्तिः । हे अलकनन्दे,

त्वं निखिलं समप्ग्रमघं पातकं हर नाशय । मधुमथनस्य श्रीकृष्णस्य या मूर्तयस्तासां

रा श्रेष्ठा तस्याः संबुद्धौ हे मधुमथनमूर्तिवरे, त्वं बहुवारि अतिजलं वहसि ।

सुष्टुठु उत्तमास्तरङ्गा यस्यास्तस्याः संबुद्धौ । हे ब्रह्मजलपात्रकृतसङ्गे, त्वं हरिचरण-

नखैर्भिदुरं भिन्नं यज्जगतोऽण्डं ब्रह्माण्डं तस्मान्निर्गतासि प्रकटितासि ॥ १ ॥ <pratika>त्वम-

सीति ।</pratika> हे सप्तर्षिकुलस्य सुकृतं पुण्यं तस्य सारे सारभूते । कनकगिरिर्मेरुर्लचित
ङ्घित
उल्लङ्घतो यया तस्याः संबुद्धौ हे कनकगिरिलते, हे सकलैः समस्तैर्मुनिभिर्व-

न्दिते । हे हरमुकुटस्य सितकुसुमानां श्वेतपुष्पाणां माले मालाभूते । त्वं जनानां

विश्वेषां पावनी पवित्रकर्त्री असि । पुनः कीदृशी । चत्वारश्च ते उधयश्च तान्प्रति

गच्छति सा चतुरुदधिगामिनी असि ॥ २ ॥ <pratika>सगरेति ।</pratika> हे सागरसुतसङ्गमे सगर-

सुतानां सङ्गमो यस्यास्तस्याः संबुद्धौ । सङ्गमेन पावनकर्त्रीत्यर्थः । हे लसन्त्यः शोभ-

माना या अमरसुन्दर्यो देवाङ्गनास्तासां दूतिके प्रापिके । हे दुष्कृतिभिर्दुष्कर्म कारि-

भिर्दुःखेनाप्लुतुमशक्ये। हे निर॒यगतिबाधिके नरकगतिनिवारिके । हे निर्वाणसाधिके मो-

क्षप्रदे । हे भक्तजनहृतसंतापे, भक्तजनानां हृतः संतापो यया तस्याः संबुद्धिः ॥३॥
 
-
 

 
[^
.] यद्यप्यस्य प्रबन्धस्य '"भणन्तमिह सादरं धीरजयदेवक विमुत्तारयसि'" इत्याद्यन्तिमपदा-
थैं

र्थे
न गीतगोविन्दकर्तृजयदेवविप्रणीतत्वमापाततस्तर्क्यते, तथापि गीतगोविन्दस्थाखिलप्र-

बन्धसाधारणानां पदलालित्य रचना चातुरी - कल्पना चमत्कार - वर्णन नैपुण्यादीनां


निरुक्तजयदेवकृतित्वानुमापकानामत्र लेशतोऽप्यनधिगमान्नायं प्रबन्धो गीतगोविन्दकाव्यकर्तुः

श्रीजयदेवस्य कृतिरिति बलीयोऽनुमानं विजृम्भतेतराम् । अतोऽस्य प्रबन्धस्य प्रणेता निरु-

क्
तजयदेवाद्भिन्नो धीरजयदेवनामा अन्यः कोऽपि कविः स्यादिति निष्कर्षः ।
 

अस्य च प्रबन्धस्य हस्तलिखितं द्वित्र पत्रात्मकं सटीकं पुस्तकमेकमस्मत्सुहृद्वरैः श्रीयुतैः
'

"
बी. ए.'" इत्युपपदधारिभिः '"तनसुखराम मनसुखराम त्रिपाठी'" इत्येतैरस्मन्निकटे

प्रेषितम् । तदनुरोधेनैव सोऽयं काक्वाप्यमुद्रितचरः प्रबन्धो रसिकजनप्रीत्यै मुद्रयित्वा प्राकाश्यं

नीत इत्यलं विस्तरेण ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri