This page has not been fully proofread.

गङ्गास्तवर्ध्रबन्धः ।
 
शिकार
 
NOWONT
 
मधुमथनमूर्तिवर इन्दुकरकामुकं वहसि बहु वारि सुतरङ्गे ।
हरिचरणनखभिदुरजगदण्डनिर्गता ब्रह्मजलपात्रकृतसङ्गे ॥ १ ॥
नमो देवि गङ्गे नमो देवि गङ्गे हर निखिलमघमलकनन्दे ॥ ध्रुवम् ॥
त्वमसि जनपाविनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारे ।
कनकगिरिलविते सकलमुनिंवन्दिते हरमुकुटसितकुसुममाले ॥ न० २
सगरसुतसङ्गमे लसदमरसुन्दरीदूतिके दुष्कृतिदुरापे ।
निरयगतिबाधिके निर्वाणसाधिके भक्तजनहृतसंतापे ॥ नमो० ॥ ३ ॥
 
मधुमथनेति । हे देवि, हे गङ्गे, तुभ्यं नमः । आदरे द्विरुक्तिः । हे अलकनन्दे,
त्वं निखिलं समप्रमघं पातकं हर नाशय । मधुमथनस्य श्रीकृष्णस्य या मूर्तयस्तासां
बरा श्रेष्ठा तस्याः संबुद्धौ हे मधुमथनमूर्तिवरे, त्वं बहुवारि अतिजलं वहसि ।
सुष्टु उत्तमास्तरङ्गा यस्यास्तस्याः संबुद्धौ । हे ब्रह्मजलपात्रकृतसङ्गे, त्वं हरिचरण-
नखैर्भिदुरं भिन्नं यज्जगतोऽण्डं ब्रह्माण्डं तस्मान्निर्गतासि प्रकटितासि ॥ १ ॥ त्वम-
सीति । हे सप्तर्षिकुलस्य सुकृतं पुण्यं तस्य सारे सारभूते । कनकगिरिर्मेरुर्लचित
उल्लङ्घतो यया तस्याः संबुद्धौ हे कनकगिरिलते, हे सकलैः समस्तैर्मुनिभिर्व-
न्दिते । हे हरमुकुटस्य सितकुसुमानां श्वेतपुष्पाणां माले मालाभूते । त्वं जनानां
विश्वेषां पावनी पवित्रकर्त्री असि । पुनः कीदृशी । चत्वारश्च ते उधयश्च तान्प्रति
गच्छति सा चतुरुदधिगामिनी असि ॥ २ ॥ सगरेति । हे सागरसुतसङ्गमे सगर-
सुतानां सङ्गमो यस्यास्तस्याः संबुद्धौ । सङ्गमेन पावनकर्त्रीत्यर्थः । हे लसन्त्यः शोभ-
माना या अमरसुन्दर्यो देवाङ्गनास्तासां दूतिके प्रापिके । हे दुष्कृतिभिर्दुष्कर्म कारि-
भिर्दुःखेनाप्लुमशक्ये। हे निर॒यगतिबाधिके नरकगतिनिवारिके । हे निर्वाणसाधिके मो-
क्षप्रदे । हे भक्तजनहृतसंतापे, भक्तजनानां हृतः संतापो यया तस्याः संबुद्धिः ॥३॥
 
-
 
१ यद्यप्यस्य प्रबन्धस्य 'भणन्तमिह सादरं धीरजयदेवक विमुत्तारयसि' इत्याद्यन्तिमपदा-
थैंन गीतगोविन्दकर्तृजयदेव क विप्रणीतत्वमापाततस्तर्क्यते, तथापि गीतगोविन्दस्थाखिलप्र-
बन्धसाधारणानां पदलालित्य – रचना चातुरी - कल्पना चमत्कार - वर्णन नैपुण्यादीनां

निरुक्तजयदेवकृतित्वानुमापकानामत्र लेशतोऽप्यनधिगमान्नायं प्रबन्धो गीतगोविन्दकाव्यकर्तुः
श्रीजयदेवस्य कृतिरिति बलीयोऽनुमानं विजृम्भतेतराम् । अतोऽस्य प्रबन्धस्य प्रणेता निरु-
तजयदेवाद्भिन्नो धीरजयदेवनामा अन्यः कोऽपि कविः स्यादिति निष्कर्षः ।
 
अस्य च प्रबन्धस्य हस्तलिखितं द्वित्र पत्रात्मकं सटीकं पुस्तकमेकमस्मत्सुहृद्वरैः श्रीयुतैः
'बी. ए.' इत्युपपदधारिभिः 'तनसुखराम मनसुखराम त्रिपाठी' इत्येतैरस्मन्निकटे
प्रेषितम् । तदनुरोधेनैव सोऽयं काप्यमुद्रितचरः प्रबन्धो रसिकजनप्रीत्यै मुद्रयित्वा प्राकाश्यं
नीत इत्यलं विस्तरेण ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri