2023-06-01 07:00:24 by jayusudindra
This page has been fully proofread once and needs a second look.
पदवाक्यप्रमाणाख्यत्रिसरित्सङ्गमश्रिया ।
कुम्भकर्णगिरां योगो न स्यादिष्टार्थदः कथम् ॥
स्वभावगम्भीरतया निसर्गदुर्बोधभावा जयदेववाचः ।
व्याकर्तुमीष्टे यदि ता नरेशः श्रीकुम्भकर्णो न परः कदाचित् ॥
श्रीगीतगोविन्दविचारसूक्तिसुरापगासंभवतोऽनुमेयम् ।
श्रीकुम्भकर्णेऽखिलराजिभूभृद्राजत्वमार्या अविचार्यमस्ति ॥
रे मूढाः किमुपास्यते गुणिगणप्रावीण्यपाटच्चरं
भूभृद्वृन्दमनेककाकुरचनाचातुर्यचाटूक्तिभिः ।
श्रीकुम्भः सकलाभिलाषफलदश्चेत्सेवितुं प्राप्यते
सौरभ्यं यदि मौक्तिके किमपरं श्लाघ्यं भवेद्भूतले ॥
सुवर्णमुक्ताफलनिर्मितेयं सत्सूक्तिमाला सुमनःप्रयुक्ता ।
श्रीकुम्भभूमीपतिनोपयुक्ता श्रीवासुदेवार्पणमस्तु साक्षात् ॥
नाभूवन्कति नाम केऽपि सुधियस्तत्तद्गुरूपासना-
भ्यासासादिततत्स्वतोषजननप्रोल्लासिवाग्विभ्रमाः ।
स्वच्छन्दप्रसरद्वचःसुरसरित्कल्लोललोलोक्तिभिः
स्वाधीनीकृतसर्वतःसहृदयः श्रीकुम्भ एव प्रभुः ॥
इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेनाभिनवभरताचार्येण मालवाम्भोधि-
नाथमहीधरेण यवनवरतिमिरकुलसङ्कुलसरङ्गपुरजलधिजलैकचुलुकेन मुनिवरेण प्रागु-
दक्प्रतीचीदिगाधिपराजगजहठादानदर्शितानन्यसाधारणपौरुषेण मेदपाटसमुद्रसम्भ-
वरोहिणीरमणेन रायगुरुचापगुरुसेलगुरुरामां च परमगुरुवङ्गालगारायां (?) चामुह-
वनेत्यादिबिरुदराजिविराजमानेन अरिराजमत्तमातङ्गपञ्चाननेन सङ्गीतमीमांसामांस-
लमतिना प्रत्यर्थिपृथ्वीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्य-
दीक्षादायगुरुणा बलोद्धतराजकदम्बकदम्बोत्पाटनदक्षिणेन बलहीनराजकस्थापनाचा-
र्येण भूमण्डलाखण्डलेन चित्रकूटविभ्रमाध्युष्टनरेश्वरेण गजनरतुरगाधीशराजत्रित-
यतोडरमल्लेन वेदमार्गस्थापनचतुराननेन याचककल्पनाकल्पद्रुमेण वसुंधरोद्धरणा-
दिवराहेण भवानीपतिप्रसादपरिप्राप्तहृष्टशारीरशालिना ऋणत्रय्यपाकरणकारणसकल-
तीर्थाधिदैवतगयागतयवननिगडनिर्वासनेन त्रिजगतीतापत्रयोन्मूलनमूलहेतुना महे-
न्द्रमुखाभिनेयगताभिनयप्रपञ्चरचनाकरतलकलितामन्त्यकफलवदविकलपथीकृतविश्व-
वास्तुवस्तुना वसुमतीमण्डलमध्यवर्तिचापोपकारतोडरमल्लेन नादेनेव मूर्तिमता सूर्य-
त्रितयवेदितराजचक्रचूडामणिना महाराज्ञीहृदयसौभाग्यदेवीहृदयनन्दनेन महाराज-
रणश्रीमोकयोर्विदटीलेन्द्रतनुजन्मना महाराज्ञीश्रीअपूर्वदेवीहृदयाधिनाथेन महाराजा-
धिराजमहाराजश्रीकुम्भकर्णमहामहेन्द्रेण विरचितायां रसिकप्रियानाम्न्यां
श्रीगीतगोविन्दटीकायां द्वादशः सर्गः समाप्तः ॥