This page has been fully proofread once and needs a second look.

सर्गः इ[^] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १७३
त्थं केलिततीर्विहृत्य यमुनाकूले समं राधया

तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।

तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयो-

र्व्यापाराः पुरुषोत्तमस्य ददतु स्फीतां मुदां संपदम् ॥ १३ ॥

 
इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥

 
<bold>
॥ समाप्तं चेदं काव्यम् ॥
 
</bold>
 
श्यते तत्तु कीर्तितं गुणकीर्तनम् ॥ १२ ॥ <pratika>इत्थमिति ।</pratika> पुरुषोत्तमस्य हस्तयोर्व्यापाराः

स्फीतां मुदां संपदं ददतु । किं विशिष्टयोर्हस्तयोः । तत्र वेण्यामाहाह्लादो विधत्ते ययोस्ते

आह्लादिनी । कुचावेव प्रयागफले वटफले । आह्लादिनी च ते कुचप्रयागफले च आह्वाला-

दिकुचप्रयागफले । तयोर्लिप्सां वाञ्छां बिभ्रत इति लिप्साभृतौ । तयोर्लिप्साभृतोः । किं

कृत्वा । इत्थं पूर्वोक्तप्रकारेण स्वाधीनभर्तृकया राधया सह यमुनाकूले क्रीडापरंपरा

विहृत्येति स्वेच्छया विधानपरम् । क्व सति । तद्रोमावलिमौक्तिकावलियुगे । तस्या

रोमावलिमौक्तिकानामावलिर्हारः तयोर्युग्मे । वेण्या इति गङ्गायमुनयोः सङ्गमस्य

भ्रमं विलासं बिभ्रति सति । रोमावलिर्यमुनयोपमीयते कृष्णत्वात् । मौक्ति कावलिश्चो-

ज्
ज्वलत्वाद्गङ्गयोपमीयते । तत्संगमे प्रयागो भवत्येव । कुचौ तत्फलाभ्यामुपमीयेते ।

कुचप्राप्तेः प्रयागफलप्राप्तिरिति रूपकमलंकारः । शार्दूलविक्रीडितं वृत्तम् । स्वाधीन-

भर्तृका नायिका । तल्लक्षणम् – '-- "यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचि-

त्रविभ्रमासक्ता सा स्वाधीनपतिर्यथा । लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं

तिलकमलिके कुर्वन्गण्डादुदस्यति कुन्तलान् । इति चटुशतैर्वारंर्वारं वपुः परितः स्पृ-

शन् विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥'" पाञ्चाली रीतिः । भारती वृत्तिः।

पाञ्चाली गीतिः । आदितालस्तथा पञ्च हरवक्त्रसमुद्भवाः । प्रतिमण्ठश्चतुर्मात्रीरो मण्ठ-

श्
चैवाड्डतालकः ॥ तालो वर्णयतिश्चैव जयमङ्गलसंज्ञितः । विजयानन्दनामा च जय
-
श्रीसंज्ञकः परः ॥ प्रतितालं पदानि स्युः पाटास्तदुभयं तथा । मध्ये मध्ये यथाशो-

भालप्तियुक्तिर्विशेषवत् । विशेषतो वर्णयतौ यदा श्री संज्ञिकोऽपि च ॥ तेनकाः स्युः

पदस्थाने प्रतितालेन वेश्यते । मुक्तिपादाक्षरैर्युक्तैरालापेन पुरस्कृतैः ॥ पदान्येवं

षोडश वै ताला एकोनविंशतिः । गौडः स्याद्देशतालादिरागः सर्वपदाश्रयः ॥ धी रो-

दात्तगुणैर्युक्तो वर्ण्य उत्तमनायकः । छन्दः स्यात्स्वेच्छया बद्धं समानादिगुणा दृशः '
"
॥ १३ ॥ इति श्रीसुप्रीतपीताम्बरतालश्रेणिनामा अष्टाविंशः प्रबन्धः ॥

यस्य द्वादशराजकं वितनुते सेवां स्थितं किङ्करं

यस्मिन्द्वादशभानुभानुनिकरो भात्येककालोद्गतः ।

यश्च द्वादशभाः प्रभः प्रकृतिवद्व्याप्यैव लोभं स्थितः
 
O
 

सोऽयं द्वादशसर्गगं विवरणं श्रीकुम्भकर्णो व्यधात् ॥
 

 
[^
.] अयं श्लोकः प्रक्षिप्त इति भाति । आदर्शपुस्तकान्तरे ष्वदर्शनात् ।
CC-kradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri