This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: १२
 
साध्वी माध्वीक चिन्ता न भ॑भ[^१]वति भवतः शर्करे कर्कशासि

द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते ।

माकन्द क्रन्द कान्ताधर धैध[^२]र न तुलां गच्छ यच्छन्ति भावं

यावच्छृ[^३]ङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवा[^४]चः ॥ १२ ॥
 

 
इदानीं कविरात्मनः प्रबन्धस्य माधुर्यादिगुणवत्त्वं ख्यापयति -- <pratika>साध्वीति ।
</pratika>
यदेवस्य वैदग्ध्यवाचः शुभमिव शुभवत् । यावत्सारं यावत्सारस्य संभव इति

यावत्सारम् । यत्र कुत्रापि सारं विद्यते तत्र शृङ्गाररसस्य सारं तत्त्वं ज्ञातुमि-

च्छति । यथा यत्रकुत्रचिच्छुभं मङ्गलं विद्यते तत्र जगन्मङ्गलचरितानुवर्णनाद्यथा

गन्तुमिच्छन्ति तथाह । तर्हि हे माध्वीक, तवेयं चिन्ता साध्वी न भवति । एत-

त्सदृशं भवामीति चिन्ता न कार्या । कथम् । त्वयि तथासाराभावात् । तदा भवतु

इति पाठान्तरम् । अथ भवतीति पाठपक्षे -- हे शर्करे, भवती कर्कशासीति

योज्यम् । तद्गवेषणं योग्यं (१) त्वयि सारं नास्त्येव । हे द्राक्षे, त्वं मा भैः । त्वां के

वा द्रक्ष्यन्ति । न केऽपीत्यर्थः । हे अमृत, त्वया नाम्नाऽनेन गर्वो न धार्यः । तदपे-

क्षया त्वं मृतमसि । हे क्षीररस, रसोऽहमिति त्वं मा गवःर्वीः । तव रसो नीरमेव । नित-

रामीर्यते प्रेर्यंत इति नीरम् । हे माकन्द पक्कसरसफल, त्वं क्रन्द वैकल्यं प्राप्नुहीति

किम् । विकलस्य चिन्तामपि ते न करिष्यन्ति । हे कान्ताधर, त्वं ताभिस्तुलां न घर ।
धर ।
अहं त्वत्तुल्यो भवामीति मा संप्रतिपद्येथाः । अथ हे कान्ताधर, वैकल्यं न गच्छेत्यर्थः

यतो जयदेवस्य वैदग्ध्यवाचो यावत्सारं यावद्भिः सारैः सह तुलां गन्तुमिच्छन्ति । तर्हि

यावता न तुलयन्ति तावद्भवद्भिरेवमुक्तप्रकारेण स्थातव्यम् । किंभूता वाचः । शुभं

मङ्गलं शृङ्गारसारमिव । अत्र '"मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि

प्रथन्ते'" इति न्यायमाश्रित्य प्रबन्धान्ते शुभशब्दोपादानम् । अत्र तिरस्कृतोपमालं-

कारः । स्रग्धरा वृत्तम् । आरभटी वृत्तिः । वैदर्भी रीतिः । गुणकीर्तनं नाम नाट्यालं-

कारः । तल्लक्षणं सङ्गीतराजे — '-- "बहूनां गुणिनां यत्र नामार्थजनितैर्गुणैः । एकोऽपदि-

 
एतत्काव्य विवेचन प्रणयिनां यत्संशयोन्मूलना-

त्पुण्यं यच्च हरिस्मृतौ प्रतिपदव्याख्यासु मे संचितम् ।

तेन प्रीतमनास्तनोतु सततं श्रेयो मम श्रीपतिः

शश्वन्मङ्गलमातनोत्वपि सतां संलापतां शृण्वताम् ॥
 

इति श्रीमहामहोपाध्याय दिनेश्वर मिश्रात्मजश्रीमहामहोपाध्यायशंकर मिश्र-

विरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरी-

समाख्यायां द्वादशः सर्गः समाप्तितिं पफाण ॥
 

 
[^
'.] "न भवतु भवती शर्करे'" इति पाठः । [^ '.] "कान्ताधर धरणितलं गच्छ'" इति पाठः ।

[^
'.] "सारस्वतमिह जय'" इति पाठः । [^ '.] "देवस्य विष्वग्वचांसि'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri