This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्ग: १२
 
साध्वी माध्वीक चिन्ता न भ॑वति भवतः शर्करे कर्कशासि
द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते ।
माकन्द क्रन्द कान्ताधर धैर न तुलां गच्छ यच्छन्ति भावं
यावच्छृङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवाचः ॥ १२ ॥
 
इदानीं कविरात्मनः प्रबन्धस्य माधुर्यादिगुणवत्त्वं ख्यापयति – साध्वीति ।
यदेवस्य वैदग्ध्यवाचः शुभमिव शुभवत् । यावत्सारं यावत्सारस्य संभव इति
यावत्सारम् । यत्र कुत्रापि सारं विद्यते तत्र शृङ्गाररसस्य सारं तत्त्वं ज्ञातुमि-
च्छति । यथा यत्रकुत्रचिच्छुभं मङ्गलं विद्यते तत्र जगन्मङ्गलचरितानुवर्णनाद्यथा
गन्तुमिच्छन्ति तथाह । तर्हि हे माध्वीक, तवेयं चिन्ता साध्वी न भवति । एत-
त्सदृशं भवामीति चिन्ता न कार्या । कथम् । त्वयि तथासाराभावात् । तदा भवतु
इति पाठान्तरम् । अथ भवतीति पाठपक्षे – हे शर्करे, भवती कर्कशासीति
योज्यम् । तद्गवेषणं योग्यं (१) त्वयि सारं नास्त्येव । हे द्राक्षे, त्वं मा भैः । त्वां के
वा द्रक्ष्यन्ति । न केऽपीत्यर्थः । हे अमृत, त्वया नाम्नाऽनेन गर्वो न धार्यः । तदपे-
क्षया त्वं मृतमसि । हे क्षीररस, रसोऽहमिति त्वं मा गवः । तव रसो नीरमेव । नित-
रामीर्यते प्रेर्यंत इति नीरम् । हे माकन्द पक्कसरसफल, त्वं ऋन्द वैकल्यं प्राप्नुहीति
किम् । विकलस्य चिन्तामपि ते न करिष्यन्ति । हे कान्ताधर, त्वं ताभिस्तुलां न घर ।
अहं त्वत्तुल्यो भवामीति मा संप्रतिपद्येथाः । अथ हे कान्ताधर, वैकल्यं न गच्छेत्यर्थः।
यतो जयदेवस्य वैदग्ध्यवाचो यावत्सारं यावद्भिः सारैः सह तुलां गन्तुमिच्छन्ति । तर्हि
यावता न तुलयन्ति तावद्भवद्भिरेवमुक्तप्रकारेण स्थातव्यम् । किंभूता वाचः । शुभं
मङ्गलं शृङ्गारसारमिव । अत्र 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि
प्रथन्ते' इति न्यायमाश्रित्य प्रबन्धान्ते शुभशब्दोपादानम् । अत्र तिरस्कृतोपमालं-
कारः । स्रग्धरा वृत्तम् । आरभटी वृत्तिः । वैदर्भी रीतिः । गुणकीर्तनं नाम नाट्यालं-
कारः । तल्लक्षणं सङ्गीतराजे — 'बहूनां गुणिनां यत्र नामार्थजनितैर्गुणैः । एकोऽपदि-
एतत्काव्य विवेचन प्रणयिनां यत्संशयोन्मूलना-
त्पुण्यं यच्च हरिस्मृतौ प्रतिपदव्याख्यासु मे संचितम् ।
तेन प्रीतमनास्तनोतु सततं श्रेयो मम श्रीपतिः
शश्वन्मङ्गलमातनोत्वपि सतां संलापतां शृण्वताम् ॥
 
इति श्रीमहामहोपाध्याय दिनेश्वर मिश्रात्मजश्रीमहामहोपाध्यायशंकर मिश्र-
विरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरी-
समाख्यायां द्वादशः सर्गः समाप्ति पफाण ॥
 
१ 'न भवतु भवती शर्करे' इति पाठः । २ 'कान्ताधर धरणितलं गच्छ' इति पाठः ।
३ 'सारस्वतमिह जय' इति पाठः । ४ 'देवस्य विष्वग्वचांसि' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri