This page has been fully proofread once and needs a second look.

सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १७१
यद्गान्धर्वकलासु कौशलमनुष्ध्यानं च यद्वैष्णवं

यच्छृङ्गारविवेक तत्त्वरचना[^१]काव्येषु लीलायितम् ।

तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः
 

सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥१०॥

 
श्रीभोजदैवप्रभवस्य रामा[^२]देवीसुतश्रीजयदेवकस्य ।

पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ११ ॥
 

 
गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति । न मुञ्चत्यन्यरक्तोऽपि ज्ञेयोऽसौ दक्षिणो

यथा'" ॥ ९ ॥ इदानीं विद्वत्प्रार्थनाव्याजेन आत्मप्रशंसां तनुते
- य
-- <pratika>यद्गान्धर्वेति ।
</pratika>
हे सुधियः, जयदेवपण्डितकवेस्तत्सर्वं गीतगोविन्दतः । अत्र तसिल् सार्वविभक्ति-

कत्वात्सप्तम्यर्थे उपपत्तिः । गीतगोविन्दे परिशोधयन्तु शुद्धं कुर्वन्तु । अथवा गीत-

गोविन्दादेव शुद्धं जानन्तु । अत्र '"यद्यपि संख्यावान्पण्डितः कविः'" इति एका-

र्थपर्यवसायित्वं तथापि '"विकर्तनस्तमसाम्'" इत्यादिवत्पण्डितेष्वपि कविः क्रान्त-

दर्शीति विशेषणपरं बोद्धव्यम् । तदिति किम् । यद्गान्धर्वकलासु कौशलम् । गान्धर्वो

मार्गदेशीवत् तस्य कला अङ्गविन्यासवैचक्षण्यादिकाः तत्र कौशलम् । तत्र

गान्धर्वस्य स्वपदात्मकत्वेन मार्गकत्वात् (?) । अत्र संभवित्वेऽपि केवलदेश्यां गान्ध-
वै

र्व
शब्दवृत्तिरुपचारवृत्त्या बोद्धव्येति सुस्थितम् । अनु च यच्च वैष्णवमनुध्यानम् ।

अनु च चिन्तनम् । अनु च यच्च शृङ्गारस्य विवेकः संभोगविप्रलम्भत्वेन पृथग्भाव-

स्तस्य तत्त्वं सम्यक्त्वेन निरूपणम् । तस्य रचनाविशेषवन्ति यानि काव्यानि तेषु

यल्लीलायितं विलसितमिति यावत् । एतावता गाने विष्णुभक्तौ शृङ्गाररस निरूपणे

च यदेतस्य काव्यकौशलं तत्सानन्दाः सुधियोऽस्मादेव प्रबन्धात्परिशोधयन्तु ।

किंभूतस्य कवेः । कृष्णे एकतान एकाग्रचित्त आत्मा स्वरूपं यस्य । तथाविध -
-
स्येत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । वैदर्भी रीतिः । आरभटी वृत्तिः ॥ १० ॥

( अत्र '<pratika>"श्रीभोजदेवेति'"</pratika> श्लोकस्य टीका नोपलब्धा टीकादर्शपुस्तके ) ॥ ११ ॥
 

 
तथैवाकरोत् । यथा यथा राधोक्तवती तथैवाकरोदित्यर्थः ॥ ९ ॥ <pratika>यद्गान्धर्वेति ।</pratika> हे

सुधियः पण्डिताः सन्तो जयदेवकवेः श्रीगीतगोविन्दतस्तत्सर्वं परिशोधयन्तु जानन्तु । तरिक-
त्कि-
मित्याह -- यद्गान्धर्वकलासु कौशल्यं नैपुण्यम् । अथ च वैष्णवं विष्णुसंबन्धि यदनुध्यान-

मनुक्षणचिन्तनम् । यच्च शृङ्गारविवेकतत्त्वं शृङ्गारस्य शृङ्गाररसस्य यो विवेकः संभोग-

विप्रलम्भादिरूपेण यद्विवेचनं तस्य भावं यथार्थज्ञानम् । यदपि च काव्येषु कविकर्मसु
कवित्व

कवित्व
निर्माणरूपेषु लीलायितम् । तत्सर्वमित्यर्थः । कीदृशस्य जयदेवकवेः । कृष्णैकताना-

त्मनः कृष्णैकता नस्तत्पर आत्मा मनो यस्य तादृशस्य । '"एकतानोऽनन्यवृत्तिः" ॥ १० ॥

अधुना पितृमातृनाम निबध्नन्प्रार्थयते सज्जनानिति स्वगुणान्प्रकाशयितुम् -- <pratika>श्री भोज-

देवेत्यादि ॥ ११ ॥
 
</pratika>
 
[^
'.] "तत्त्वमपि यस्काव्येषु'" इति पाठः । [^ '.] "राधादेवी'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri