2023-05-29 05:43:30 by jayusudindra
This page has been fully proofread once and needs a second look.
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-
र्घटय जघने काञ्चीं मु[^१]ग्धस्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे म[^२]णिनूपुरा-
विति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत्[^३] ॥ ९ ॥
त्कर्षप्रदे । पुनः किंलक्षणे । श्रीजयदेववचसि विषयभूते । अथवा चशब्दमध्याहृत्य
मण्डने जयदेववचसि च हृदयं सदयं कुर्विति व्याख्येयम् । अन्यानि पदानि उभय-
विशेषणत्वेन योजनीयानि । किंलक्षणे वचसि । सहृदयालंकरणे । जयदेववचसि
किंविशिष्टे । उसः<missing>****</missing>तस्मिन् । हरिचरणस्मरणमेवामृतं तत्र कृतो यः कलिकलुषज्वरो
रोषरूपसंतापः स एव संज्वरः तस्य खण्डने । हरिचरणस्मरणामृतेन पापखण्डने
वचसीत्यर्थः । अथवा हरिचरणस्मरणामृतेन कृतं पापस्य खण्डनं येन वचसा
तस्मिंस्तादृशे ॥ ८ ॥ इदानीमष्टपद्युक्तमेव श्लोकेनावतारयति -- <pratika>रचयेति ।</pratika> पीता-
म्बरः श्रीकृष्ण इति राधया निगदितः प्रीतः सन्यथा निगदितं तथा सर्वमकरोत् ।
अपिशब्दसमुच्चितं यद्यत्तदभीष्टं तत्तदकरोदित्यपिशब्दार्थः । इतीति किम् । हे
यदुनन्दनेत्यनुषङ्गः । कुचयोः पत्रं पत्रवल्लीं रचय । अनु च कपोलयोर्मकरिकादि-
चित्रं रचय । जघने श्रोण्यां मेखलामारोपय । अनु च मुग्धस्रजा मनोहरमा-
लया कबरीभरं कलय बन्धय । अनु च वलयश्रेणीं पाणौ कलय । अनु च
पदे मणिमयनूपुरौ कलय । अत्र यथासंख्यमलंकारः । हरिणीवृत्तम् । प्रगल्भा
नायिका । तल्लक्षणम् -- "लब्ध्वा पतिं प्रगल्भा स्यात्समस्तरतकोविदा । आक्रान्तना-
यका बाढं विराजद्विभ्रमा यथा ॥ स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु
प्राणेश त्रुटितं पयोधरयुगे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसुखिता संपूर्ण-
चन्द्रानना स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ॥" दक्षिणो नायकः । "यो
कवेर्वचसि वाक्ये सदयं दयासहितं यथा स्यादेवं हृदयं कुरु । कीदृशे मण्डने । जय-
देवस्यालंकारजनके । पुनः कीदृशे । हरिचरणस्मरणमेव यदमृतं तेन निर्मितं कलि-
कलुषज्वरस्य कलियुगसंचितपापरूपज्वरस्य खण्डनं नाशनं येन तादृशे ॥ ८
<pratika>रचयेति ।</pratika> हे कृष्ण, कुचयोः पत्रं मकरिकापत्रं रचय । कपोलयोश्चित्रं चित्रकाख्यं
विशेषकं कुरु । अथ जघने काञ्चीं त्रुटितां क्षुद्रघण्टिकां घटय अर्पय । कबरीभरे चिकुरसमूहे
स्रजं माल्यमञ्चय प्रापय । वलयश्रेणीं कङ्कणपङ्क्तिं पाणौ हस्ते कलय अर्पय । पदे चरणे
नूपुरौ मञ्जीरौ कुरु । इत्यनेन प्रकारेण राधया निगदित उक्तः सन्पीताम्बरः कृष्णोऽपि
[^१.] "काञ्चीमञ्च स्रजा" इति पाठः । [^२.] "पदे कुरु नूपुरा--" इति पाठः । [^३.] अस्याग्रे
क्वचित्पुस्तके निम्नलिखितः श्लोकः समुपलभ्यते --
पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे
सङ्क्रान्तप्रतिबिम्बसंवलनया बिभ्रद्विभुप्रक्रियाम् ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः
कायव्यूहमिवाचरन्नपचितौ भूतो हरिः पातु वः ॥