This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्गः १२
 
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-

र्घटय जघने काञ्चीं मु[^१]ग्धस्रजा कबरीभरम् ।

कलय वलयश्रेणीं पाणौ पदे मंम[^२]णिनूपुरा-
॥३॥

विति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत्[^३] ॥ ९ ॥
 

 
त्कर्षप्रदे । पुनः किंलक्षणे । श्रीजयदेववचसि विषयभूते । अथवा चशब्दमध्याहृत्य

मण्डने जयदेववचसि च हृदयं सदयं कुर्विति व्याख्येयम् । अन्यानि पदानि उभय-

विशेषणत्वेन योजनीयानि । किंलक्षणे वचसि । सहृदयालंकरणे । जयदेववचसि

किंविशिष्टे । उसः………तस्मिन् । हरिचरणस्मरणमेवामृतं तत्र कृतो यः कलिकलुषज्वरो

रोषरूपसंतापः स एव संज्वरः तस्य खण्डने । हरिचरणस्मरणामृतेन पापखण्डने

वचसीत्यर्थः । अथवा हरिचरणस्मरणामृतेन कृतं पापस्य खण्डनं येन वचसा

तस्मिंस्तादृशे ॥ ८ ॥ इदानीमष्टपद्युक्तमेव श्लोकेनावतारयति - - <pratika>रचयेति ।</pratika> पीता-

म्बरः श्रीकृष्ण इति राघया निगदितः प्रीतः सन्यथा निगदितं तथा सर्वमकरोत् ।

अपिशब्दसमुच्चितं यद्यत्तदभीष्टं तत्तदकरोदित्यपिशब्दार्थः । इतीति किम् । हे

यदुनन्दनेत्यनुषङ्गः । कुचयोः पत्रं पत्रवल्लीं रचय । अनु च कपोलयोर्म
करि कादि-

चित्रं रचय । जघने श्रोण्यां मेखलामारोपय । अनु च मुग्धस्रजा मनोहरमा-

लया कबरीभरं कलय बन्धय । अनु च वलयश्रेणीं पाणौ कलय । अनु च

पदे मणिमयनूपुरौ कलय । अत्र यथासंख्यमलंकारः । हरिणीवृत्तम् । प्रगल्भा

नायिका । तल्लक्षणम् – '-- "लब्ध्वा पतिं प्रगल्भा स्यात्समस्तरतकोविदा । आक्रान्तना-

यका बाढं विराजद्विभ्रमा यथा ॥ स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु

प्राणेश त्रुटितं पयोधरयुगे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसुखिता संपूर्ण-

चन्द्रानना स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ॥'" दक्षिणो नायकः । '"यो

 
कवेर्वचसि वाक्ये सदयं दयासहितं यथा स्यादेवं हृदयं कुरु । कीदृशे मण्डने । जय-

देवस्यालंकारजनके । पुनः कीदृशे । हरिचरणस्मरणमेव यदमृतं तेन निर्मितं कलि-

कलुषज्वरस्य कलियुगसंचित पापरूपज्वरस्य खण्डनं नाशनं येन तादृशे ॥ ८

<pratika>
रचयेति ।</pratika> हे कृष्ण, कुचयोः पत्रं मकरिकापत्रं रचय । कपोलयोश्चित्रं चित्रकाख्यं

विशेषकं कुरु । अथ जघने काञ्चीं त्रुटितां क्षुद्रघण्टिकां घटय अर्पय । कबरीभरे चिकुरसमूहे

स्रजं माल्यमञ्चय प्रापय । वलयश्रेणीणीं कङ्कणपङ्क्तिं पाणौ हस्ते कलय अर्पय । पदे चरणे

नूपुरौ मञ्जीरौ कुरु । इत्यनेन प्रकारेण राधया निगदित उक्तः सन्पीताम्बरः कृष्णोऽपि
 

 
[^
'.] "काञ्चीमञ्च स्रजा'" इति पाठः । [^ '.] "पदे कुरु नूपुरा —'--" इति पाठः । [^.] अस्याग्रे

क्व
चित्पुस्तके निम्नलिखितः श्लोकः समुपलभ्यते-
--
पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे
 

सङ्क्रान्तप्रतिबिम्बसंवलनया बिभ्रद्विभुप्रक्रियाम् ।

पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः

कायव्यूहमिवाचरन्नपचितौ भूतो हरिः पातु वः ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri