2022-11-12 05:43:18 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे । निज० ६
सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे । निज० ॥७॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने । निज० ॥ ८ ॥
।
१६९
अलिकमष्टमी
विश्रमिताः शान्तिमिताः श्रमजलकणा यत्र । एतेन पुनरुद्दीपनविभावाः सूचिता भव-
न्तीति ॥५॥ अपि च <pratika>मम रुचिर इति ।</pratika> हे मानद मानिनीमानखण्डन, अथ च हे
पूजाप्रद, मम चिकुरे कुसुमानि कुरु । किंभूते चिकुरे । रुचिरे रुचिप्रदे । पुनः किंभूते ।
मनसिजः कामस्तस्य ध्वजः तत्र चामरवच्चामरस्तस्मिन् । पुनः किंभूते । संभोगेन
लुलिते विशकले । पुनः किंभूते । मनोहरे । पुनः किंभूते । शिखण्डिनो मयूरस्य
शिखण्डकं बर्हभारः तस्य डामरे भयदे । जेतरीत्यर्थः । रासकच्छन्दः ॥६॥ अपि च
<pratika>सरसघन इति ।</pratika> हे शुभाशय शोभनहृदय, अथ शुभ आ सामस्त्येन शयः करो
यस्य । मणिरशनादीनां करसाध्यत्वाद
रशना च वसनानि च आभरणानि च वासय निवेशय ।
च तद्धनं च स्निग्धसान्द्रे । पुनः
च तद्घनं च स्निग्धसान्द्रे । पुनः किंविशिष्टे । शम्बरदारणः कामः स वारण
इव तस्य निवासार्थकन्दर इव कन्दरे । पुनः कीदृशे । सुन्दरे मनोहरे । गजगती-
त्यादि । अनुकूलो नायकः । प्रगल्भा नायिका । संभोगः शृङ्गारः ॥ ७ ॥ अपि च ॥
<pratika>श्रीजयदेवेति ।</pratika> हे यदुनन्दन, मण्डन इति मण्डननिमित्तं हृदयं सदयं कुरु दया-
परो भूत्वा मण्डनानि विधेहीत्यर्थः । किंलक्षणे मण्डने । रुचिरे जयदेवपत्नीसकाशादु-
व्यजनवातादिभिस्तनुभूतानां प्रस्वेदबिन्दूनामतिशयिततया हिमकणत्वमाक्षिप्यते । तेन
चालिकस्य चन्द्रत्वरूपणं साङ्गं निर्वहतीति ध्वनितम् ।
॥ ५ ॥ <pratika>ममेति ।</pratika> हे मानद, मादृशप्रपन्ननायिकाभिमानप्रद । मम रुचिरे मनोहरे
चिकुरे केशे कुसुमानि कुरु रचय । कीदृशे चिकुरे । ललिते मनोहरे मनसिजस्य
कामस्य ध्वजचामरे पताकाचिह्नभूते चामरे । पुनः कीदृशे । रतिगलिते रतौ सुरतसमये
गलिते मुक्तबन्धने । पुनः कीदृशे । शिखण्डिनां मयूराणां शिखण्डस्य पिच्छस्येव डामरे
तादृशे ॥ ६ ॥ <pratika>सरसेति ।</pratika> हे शुभाशय शोभनहृदय, मम सुन्दरे जघने मणिमयी
या रशना क्षुद्रघण्टिका वसनं वस्त्रमाभरणान्यलंकरणानि च वासय परिधेहि । कीदृशे
जघने । सरसघने सरसे शृङ्गाररससहिते घने निबिडे । पुनः कीदृशे । शम्बरं शम्बर-
नामानं दैत्यं दारयतीति शम्बरदार
तस्य कन्दरे । अपरोऽपि हस्ती पर्वतकन्दरायां तिष्ठतीति भावः ।
इत्यमरः ।
॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> हे देव कृष्ण, जय सर्वोत्कर्षेण वर्तस्व । अथ जयदेवस्य
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri