This page has not been fully proofread.

सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे । निज०६
सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
 
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे । निज० ॥७॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने । निज० ॥ ८ ॥
 

 
१६९
 
अलिकमष्टमी चन्द्रेणोपमीयते, कस्तूरी विशेषकं कलङ्केनेत्युपमालंकारः । किंभूते मुखे ।
विश्रमिताः शान्तिमिताः श्रमजलकणा यत्र । एतेन पुनरुद्दीपनविभावाः सूचिता भव-
न्तीति ॥५॥ अपि च मम रुचिर इति । हे मानद मानिनीमानखण्डन, अथ च हे
पूजाप्रद, मम चिकुरे कुसुमानि कुरु । किंभूते चिकुरे । रुचिरे रुचिप्रदे । पुनः किंभूते ।
मनसिजः कामस्तस्य ध्वजः तत्र चामरवच्चामरस्तस्मिन् । पुनः किंभूते । संभोगेन
लुलिते विशकले । पुनः किंभूते । मनोहरे । पुनः किंभूते । शिखण्डिनो मयूरस्य
शिखण्डकं बर्हभारः तस्य डामरे भयदे । जेतरीत्यर्थः । रासकच्छन्दः ॥६॥ अपि च
सरसघन इति । हे शुभाशय शोभनहृदय, अथ शुभ आ सामस्त्येन शयः करो
यस्य । मणिरशनादीनां करसाध्यत्वादयंमर्थो युक्तः । मम जघने श्रोण्यां मणिमया
रशना च वसनानि च आभरणानि च वासय निवेशय । किं विशिष्टे जघने । सरसं
च तद्धनं च स्निग्धसान्द्रे । पुनः किंविशिष्टे । शम्बरदारणः कामः स वारण
इव तस्य निवासार्थकन्दर इव कन्दरे । पुनः कीदृशे । सुन्दरे मनोहरे । गजगती-
त्यादि । अनुकूलो नायकः । प्रगल्भा नायिका । संभोगः शृङ्गारः ॥ ७ ॥ अपि च ॥
श्रीजयदेवेति । हे यदुनन्दन, मण्डन इति मण्डननिमित्तं हृदयं सदयं कुरु दया-
परो भूत्वा मण्डनानि विधेहीत्यर्थः । किंलक्षणे मण्डने । रुचिरे जयदेवपत्नीसकाशादु-
व्यजनवातादिभिस्तनुभूतानां प्रस्वेदबिन्दूनामतिशयिततया हिमकणत्वमाक्षिप्यते । तेन
चालिकस्य चन्द्रत्वरूपणं साङ्गं निर्वहतीति ध्वनितम् । 'ललाटमलिकं गोधिः' इत्यमरः
॥ ५ ॥ ममेति । हे मानद, मादृशप्रपन्ननायिकाभिमानप्रद । मम रुचिरे मनोहरे
चिकुरे केशे कुसुमानि कुरु रचय । कीदृशे चिकुरे । ललिते मनोहरे मनसिजस्य
कामस्य ध्वजचामरे पताकाचिह्नभूते चामरे । पुनः कीदृशे । रतिगलिते रतौ सुरतसमये
गलिते मुक्तबन्धने । पुनः कीदृशे । शिखण्डिनां मयूराणां शिखण्डस्य पिच्छस्येव डामरे
तादृशे ॥ ६ ॥ सरसेति । हे शुभाशय शोभनहृदय, मम सुन्दरे जघने मणिमयी
या रशना क्षुद्रघण्टिका वसनं वस्त्रमाभरणान्यलंकरणानि च वासय परिधेहि । कीदृशे
जघने । सरसघने सरसे शृङ्गाररससहिते घने निबिडे । पुनः कीदृशे । शम्बरं शम्बर-
नामानं दैत्यं दारयतीति शम्बरदारण: कामः स एव वारणो हस्ती । महाबलत्वात् ।
तस्य कन्दरे । अपरोऽपि हस्ती पर्वतकन्दरायां तिष्ठतीति भावः । 'कुञ्जरो वारणः करी'
इत्यमरः । 'दरी तु कन्दरो वा स्त्री' इति च । वासयेति च 'वस आच्छादने' ण्यन्तः
॥ ७ ॥ श्रीजयदेवेति । हे देव कृष्ण, जय सर्वोत्कर्षेण वर्तस्व । अथ जयदेवस्य
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri