This page has been fully proofread once and needs a second look.

१६८
 
गीतगोविन्दकाव्यम्
 
नयनकुरङ्गतरङ्ग विकासनिरासकरे श्रुतिमण्डले ।
 

मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले । निज० ॥ ३ ॥

 
भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
 

 

जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे । निज० ॥४॥

 
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
 

विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे । निज० ॥ ५ ॥
 

 
[
[ सर्गः १२
 

 
अपि च । <pratika>नयनेति ।</pratika> शुभो वेशो नेपथ्य विशेषो यस्येति हे शुभवेश, श्रुतिमण्डले

कुण्डले निवेशय । किंभूते श्रुतिमण्डले । नयनयोस्तरङ्गा निरीक्षणविशेषा वृद्ध्युपचयास्त

एव कुरङ्गविलासास्तेषां निरासं करोतीति । पुनः किंभूते । मनसिजस्य युवमनो बन्धनार्
थं
पाशशोभाधृति । अनेन नेत्रयोः श्रुतिगामिता उक्ता ॥ ३ ॥ अपि च । <pratika>भ्रमरचय मिति ।
</pratika>
हे यदुनन्द नेत्यनुषञ्जनीयम् । मम मुखेऽलकं परिकर्मय अलकानां प्रसाधनं कुरु ।

किंविशिष्टे मुखे । जितकमले पद्मसदृशे । पुनः किंभूते॒ । विमले । पुनः किंभूते । प्रसाद-

वति । किंभूतमलकम् । नर्मपरिहासवचनजनकम् । अलकभ्रमरपङ्ख्क्त्या मुखं पद्ममि-

त्युत्प्रेक्षितम् । इति उत्प्रेक्षालंकारः ॥४॥ अपि च -- <pratika>मृगमदेति ।</pratika> हे कमलबदन, मम

अलिकरजनीकरे ललाटचन्द्रमसि ललितं मनोहरं तिलकं कुरु । किंभूतं तिलकम् ।

कस्तूरिकारसेन संभक्तम् । किंभूतम् विहिता आरोपिता कलङ्कस्य कला येन । एतेन
 

 
स्तस्य जनकम् । '

 
स्तस्य जनकम् । "
उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ।'" इति विश्वः ॥ २ ॥

<pratika>
नयनकुरङ्गेति ।</pratika> हे शुभवेश । शुभ:भः शोभनो वेशोऽलंकरणं यस्य तादृशम् । मम श्रुति-

मण्डले कर्णप्रदेशे कुण्डले विनिवेशय अर्पय । कीदृशे श्रुतिमण्डले । नयने एव यौ कुरङ्गौ

मृगौ, अतिवेगवत्त्वात् । तयोस्तरङ्गस्य यो विकासः प्रसरणं तस्य निरासकरे निरास
-
कारिणि नयनयोर्दैर्ध्घ्यवियोगकारिणि । अन्यथा कियद्दूरं तयोर्वृद्धिः स्यादित्यर्थः। पुनः

कीदृशे श्रुतिमण्डले । मनसिजस्य कामस्य यः पाशोऽस्त्र विशेषस्तस्य विलासधरे तल्ली.
-
लाभृति ॥ ३ ॥ <pratika>भ्रमरचयमिति ।</pratika> मम संमुखे मुखे रुचिरं मनोहरमलकं चूर्णकुन्तलं

परिकर्मय भूषय । कीदृशमलकम् । नर्मजनकम् । कीदृशे मुखे । विमले निर्मले । पुनः

कीदृशे । जितकमले जितं तिरस्कृतं निजशोभया कमलं येन तादृशे । कीदृशमलकम् ।

सुचिरं चिरादुपरि मुखस्योपरि भ्रमरचयं भ्रमरसमूहं रचयन्तम् । स्वकान्त्या भ्रमरभ्रमं

जनयन्तमित्यर्थः ॥ ४ ॥ <pratika>मृगमदेति ।</pratika> हे कमलनयन पद्ममुख, अलिकरजनीकरे अलि
कं
ललाटमेव रजनीकरश्चन्द्र स्तस्मिन् । तिलकं कुरु । कीदृशं तिलकम् । मृगमदरसवलितं

मृगमदरसेन कस्तूरीरसेन वलितं निर्मितम् । पुनः कीदृशं तिलकम् । विहितकलङ्कक-

लम् । विहिता कलङ्कस्य लाञ्छनस्य कला शोभा येन तत्सदृशम् । अत्र कमलाननेति-

विशेषणेन आननरूपकमल विरोधिन्य लिकरूपरजनीकरे मृगमदतिलकच्छलेन कलङ्कदान-

मुचितमेवेति ध्वनितम् । कीदृशे अलिके । विश्रमितश्रमशीकरे विश्रमितो विश्रा
मं
प्रापितो यः श्रमस्तज्जनितः शीकरोऽम्बुकणो यत्र तादृशेऽलिके ॥ अत्र विश्रमितेत्यनेन
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri