2022-10-18 04:14:27 by ambuda-bot
This page has not been fully proofread.
१६८
गीतगोविन्दकाव्यम्
नयनकुरङ्गतरङ्ग विकासनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले । निज० ॥ ३ ॥
भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे । निज० ॥४॥
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे । निज० ॥ ५ ॥
।
[
[ सर्गः १२
अपि च । नयनेति । शुभो वेशो नेपथ्य विशेषो यस्येति हे शुभवेश, श्रुतिमण्डले
कुण्डले निवेशय । किंभूते श्रुतिमण्डले । नयनयोस्तरङ्गा निरीक्षणविशेषा वृद्ध्युपचयास्त
एव कुरङ्गविलासास्तेषां निरासं करोतीति । पुनः किंभूते । मनसिजस्य युवमनो बन्धनार्थ
पाशशोभाधृति । अनेन नेत्रयोः श्रुतिगामिता उक्ता ॥ ३ ॥ अपि च । भ्रमरचय मिति ।
हे यदुनन्द नेत्यनुषञ्जनीयम् । मम मुखेऽलकं परिकर्मय अलकानां प्रसाधनं कुरु ।
किंविशिष्टे मुखे । जितकमले पद्मसदृशे । पुनः किंभूते॒ । विमले । पुनः किंभूते । प्रसाद-
वति । किंभूतमलकम् । नर्मपरिहासवचनजनकम् । अलकभ्रमरपङ्ख्या मुखं पद्ममि-
त्युत्प्रेक्षितम् । इति उत्प्रेक्षालंकारः ॥४॥ अपि च-मृगमदेति । हे कमलबदन, मम
अलिकरजनीकरे ललाटचन्द्रमसि ललितं मनोहरं तिलकं कुरु । किंभूतं तिलकम् ।
कस्तूरिकारसेन संभक्तम् । किंभूतम् विहिता आरोपिता कलङ्कस्य कला येन । एतेन
।
स्तस्य जनकम् । 'उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ।' इति विश्वः ॥ २ ॥
नयनकुरङ्गेति । हे शुभवेश । शुभ: शोभनो वेशोऽलंकरणं यस्य तादृशम् । मम श्रुति-
मण्डले कर्णप्रदेशे कुण्डले विनिवेशय अर्पय । कीदृशे श्रुतिमण्डले । नयने एव यौ कुरङ्गौ
मृगौ, अतिवेगवत्त्वात् । तयोस्तरङ्गस्य यो विकासः प्रसरणं तस्य निरासकरे निरास
कारिणि नयनयोर्दैर्ध्यवियोगकारिणि । अन्यथा कियद्दूरं तयोर्वृद्धिः स्यादित्यर्थः। पुनः
कीदृशे श्रुतिमण्डले । मनसिजस्य कामस्य यः पाशोऽस्त्र विशेषस्तस्य विलासधरे तल्ली.
लाभृति ॥ ३ ॥ भ्रमरचयमिति । मम संमुखे मुखे रुचिरं मनोहरमलकं चूर्णकुन्तलं
परिकर्मय भूषय । कीदृशमलकम् । नर्मजनकम् । कीदृशे मुखे । विमले निर्मले । पुनः
कीदृशे । जितकमले जितं तिरस्कृतं निजशोभया कमलं येन तादृशे । कीदृशमलकम् ।
सुचिरं चिरादुपरि मुखस्योपरि भ्रमरचयं भ्रमरसमूहं रचयन्तम् । स्वकान्त्या भ्रमरभ्रमं
जनयन्तमित्यर्थः ॥ ४ ॥ मृगमदेति । हे कमलनयन पद्ममुख, अलिकरजनीकरे अलिक
ललाटमेव रजनीकरश्चन्द्र स्तस्मिन् । तिलकं कुरु । कीदृशं तिलकम् । मृगमदरसवलितं
मृगमदरसेन कस्तूरीरसेन वलितं निर्मितम् । पुनः कीदृशं तिलकम् । विहितकलङ्कक-
लम् । विहिता कलङ्कस्य लाञ्छनस्य कला शोभा येन तत्सदृशम् । अत्र कमलाननेति-
विशेषणेन आननरूपकमल विरोधिन्य लिकरूपरजनीकरे मृगमदतिलकच्छलेन कलङ्कदान-
मुचितमेवेति ध्वनितम् । कीदृशे अलिके । विश्रमितश्रमशीकरे विश्रमितो विश्रा
प्रापितो यः श्रमस्तज्जनितः शीकरोऽम्बुकणो यत्र तादृशेऽलिके ॥ अत्र विश्रमितेत्यनेन
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri