2022-10-18 04:14:28 by ambuda-bot
This page has not been fully proofread.
सर्गः १२ ] रसिकप्रिया-रसमञ्जर्यांख्यटीकाद्वयोपेतम्
रामकरीरागय तितालाभ्यां गीयते । प्र० ॥ २४ ॥
कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ॥ १ ॥
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ ध्रुवम् ॥
अलिकुलगंञ्जनमञ्जनकं रतिनायकसायकमोचने ।
त्वद्धरचुम्बनलम्बितकज्जल उज्ज्वलय प्रिय लोचने । निज० २
-
सुप्रीतम् । प्रीतिपरे हि नाथे विज्ञप्तिः सिद्धिमेतीति नीतिविदः । अथ सह हासेन
वर्तत इति राधाविशेषणमानन्देति वचने हेतुः । किंलक्षणा राधा । संभोगावसाने
नितान्तमतिशयेन खेदं प्राप्तमङ्गं यस्याः सा तथा । इदं पथ्या आर्या छन्दः ॥ ८ ॥
अत्रान्वयसौ कर्यार्थं पूर्वं ध्रुवपदं व्याक्रियते - निजगादेति । सा राधा वक्ष्यमाणं
प्रोवाच । क्व सति । यदुनन्दने क्रीडां कुर्वति सति । किंभूते । हृदयानन्दकारिणि इति
ध्रुवः ॥ अथ पदानि । कुरु यद्विति । हे यदुनन्दन, अत्र स्तनकलशे चन्दनव-
च्छीतलतरेण करेण कस्तूरिकया पत्रावल्यादि रचय । किंभूते कुचकलशे । कामस्य
जगज्जयार्थमङ्गलकलशसदृशे । मङ्गलार्थकलशो हि पयःपूर्णो भवति सुनीलाम्रपल्लवैरुप-
चितश्च । एवमत्र पयोधरस्यौचिती । अनेन मयूरपदकं नाम नखरक्षतं व्यज्यते ।
तथा चाह वात्स्यायनः – 'नान्यत्पटुतरं किंचिद्रागस्यास्ति विवर्धनम् । नखदन्तसमु
त्थानां कर्मणां गतयो यथा ॥' इति ॥ १॥ अपि च । अलिकुलेति । हे प्रिय, लोचने
पुनर्नूतनकज्जललेखां कुरु । किंभूतमञ्जनकम् । भ्रमरसमूहस्य तिरस्कारकम् । किंभूते
लोचने । कामबाणानां मोचने इति कटाक्ष विक्षेपैरुपलक्षिते । पुनः किंभूते । वदधर-
चुम्बनेन लम्बितं प्रसृतं कज्जलं यत्र । अनेन रागसंधुक्षणार्थं नयनयोचुम्बनमुक्तम् ॥२॥
कीदृशी राधा । निर्गता बाधा पीडा यस्याः सा । पुनः कीदृशी । स्वाधीनभर्तृका ।
तल्लक्षणं शृङ्गारतिलके– 'यस्या रतिगुणाकृष्टः पतिः पार्श्व न मुञ्चति । विचित्रविभ्रमासक्ता
स्वाधीनपतिका यथा ॥' इति ॥ ८ ॥ तदेव गीतेन कथयति — कुर्वित्यादि । गीतस्यास्य
रामकरीरागो यतिताल: । गीतार्थस्तु सा राधा यदुनन्दने निजगाद उक्तवती । कीदृशे
यदुनन्दने । क्रीडति । पुनः कीदृशे । हृदयानन्दजनके । किं निजगादेत्याह — कुर्विति ।
हे यदुनन्दन कृष्ण, अत्र मृष्टाङ्गरागे मम पयोधरे स्तने करेण मृगमदपत्रकं कस्तू-
रिकावलिं कुरु । कीदृशेन करेण । चन्दनशिशिरतरेण चन्द्रनादपि शीतलेन ।
कीदृशे पयोधरे । मनोभवस्य कामस्य यो मङ्गलकलशो माङ्गल्याय स्थापितः पूर्णकुम्भस्तस्य
सहोदरे सदृशे ॥ १ ॥ अलिकुलेति । हे प्रिय, लोचने नेत्रे त्वदधराभ्यां यच्चुम्बनं
तेन लम्बितं गलितं यत्कज्जलं तदुज्ज्वलय पुनदीपय । नयनयोः कज्जलं पुनरञ्जयेत्यर्थः ।
कीदृशे लोचने । रतिनायकस्य कामस्य सायकान्बाणान्कटाक्षरूपान्मुञ्चतीति रतिनायक-
सायकमोचनं तस्मिन् । कीदृशं कज्जलम् । अलिकुलस्य भ्रमरसमूहस्य यद्गञ्जनं तिरस्कार-
१ 'गजनसंजनकं' इति पाठः । २ 'कज्जलमुज्ज्वलय' इति पाठः ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri