This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
ईषन्मीलितदृष्टि मु[^१]ग्धविलसत्सीत्कारधारावशा-

दव्यक्ताकुलकेलिकाकुविक सद्दन्तांशुधौताधरम् ।

शान्तेत[^२]स्तब्धपयोधरं भृशपरिष्वङ्गात्कुरङ्गीदृशो
 

हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननम् ॥ ७

 
[^३]थ सहसा सुप्रीता सुरतान्ते सा नितान्तखिन्नाङ्गी ।

राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ ८ ॥
 
[सर्गः १२
 

 
र्मनोहारिण्यभूदित्यर्थः । स्रग्धरावृत्तम् । 'मन्"मभ्नैर्यानां त्रयेण त्रिमुनियवितियुता स्रग्धरा

कीर्तितेयम्'" ॥ ६ ॥ इदानीमन्यापदेशेनात्मानं धन्यमिति ध्वनयति-
--
<pratika>
ईषन्मीलि-

तेति ।</pratika> हर्षोत्कर्षविमुक्तनिःसहतनो:नोः हर्षोत्कर्षेण नानारतजनितानन्दातिशयेन विमु-

क्
ताश्लेषत्वेन निर्व्यापारा निःसहा च कामावेशवशादन्यव्यापारासहा तनुर्यस्याः । एता-

वता सुरतमनु श्रान्ततनोर्मृगलोचनाया धन्य एव मुखं धयति पिबति नाकृतपुण्यकर्मा ।

कथं यथा स्यात् । भृश परिष्वङ्गाद्दृढा लिङ्गनाच्छान्तस्तब्धपयोधरं शान्तौ विपुलकौ

स्तब्धौ कठिनौ किंचिदानतौ पयोधरौ यस्मिन्कर्मणि तद्यथा स्यात् । एतावता सुर-

तान्ते नितान्तं कान्तं तन्मुखं दृष्ट्वा पुनरालिङ्ग्याधरपाने स्पृद्दाहाभवदित्यर्थः । किंभूत-

माननम् । ईषन्मीलितदृष्टि किंचिन्मुकुलिते दृष्टी यत्र । किंभूतमाननम् । मुग्धं मनो-

हरं यथा स्यात्तथा विलसन्त्यो याः सीत्कृतानां धाराः श्रेणयस्तद्वशादव्यक्ता आकुलाश्

सुरतक्रीडायां याः काकवो ध्वनिविकारास्तासु विकसन्तो ये दन्तांशवस्तैर्धौतो-

धरो यत्र तत्तथा । कस्मात् । दृढालिङ्गनवशात् । एतेन वृक्षाधिरूढकमित्यालिङ्गनमु.
-
क्त
म् । तल्लक्षणम्–' -- "चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती च

तत्पृष्ठासक्तैकबाहुर्द्वितीयेनांसमवनमयन्ती ईषत्प्रवृत्तान्तःश्वसित सीत्कृतकूजिता चुम्ब-

नार्थमधिरोढुमिच्छेदिति वृक्षाधिरूढकम्' । त" । तच्च घटितमिति चुम्बन विशेषः । ईष-

त्प्रगृह्य निमीलितनयनावाच्छादयन्तीति घट्टितं नाम'" । एतच्च तदालिङ्गनतोषेण आत्मनि

धन्यत्वमारोप्य खास्वात्मगतार्थचिन्तनपरं पद्यम् । शार्दूलविक्रीडितं वृत्तम् । जाति-

रलंकारः । पाञ्चाली रीतिः । मागधी गीतिः । भारती वृत्तिः । स्थितलयं गानम् ॥ ७॥

अथानन्तरं तयोः परस्परानन्द संदोहरूपसुरतावसाने राधा गोविन्दमानन्दयतीत्युत्तर-

कृत्यानि प्रति प्रोत्साहयन्ती जगाद - - <pratika>अथ सहसेति ।</pratika> अथ राधा आनन्देनोप-

लक्षितं गोविन्दमिदं वक्ष्यमाणं सादरं जगाद । किंभूतं गोविन्दम् । सहसा वेगेन
 
-
 

 
द्वयस्य टीका नोपलब्धादर्शपुस्तके ॥ ६ ॥ ७ ) <pratika>अथेति ।</pratika> अथानन्तरं राधा कान्तं

कृष्णं मण्डनवाञ्छया निजगाद । कीदृशं कान्तम् । रतिश्रान्तमपि रतिखिन्नचित्तमपि ।
 

 
[^
'.] "मुग्धहसितं सीत्कार'" इति पाठः । [^ '.] "श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गात्'
 
"
इति पाठः । [^३.]
शंकर मिश्रकृतर सिकमञ्जरीटीकायामस्या आर्यायाः स्थाने निम्नलिखितः
 
इति पाठः । ३
 

श्लोको वर्तते--
-
 
'

"
अथ निर्गतबाधा सा राधा स्वाधीनभर्तृका ।
 

निजगाद रतिश्रान्तं कान्तं मण्डनवाञ्छया ॥'" इति ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri