This page has been fully proofread once and needs a second look.

सर्गः १२ ] रसिकप्रिया-रसमञ्जर्याख्य टीकाद्वयोपेतम्
व्याकोश:शः[^१] केशपाशस्तरलितमलकैः स्वेद[^२]मोक्षौ कपोला
 

क्लि[^३]ष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।

काञ्चीकान्तिर्हताशा स्तनजघनपदं पाणिनाच्छाद्य सद्यः
 

पश्यन्ती[^५] सत्रपा सा तदपि विलुलिता मुँमु[^६]ग्धकान्तिर्धिनोति ॥६॥
 

 
दृशोर्लग्नास्तावतैर्विद्धं मन इत्येतदद्भुतम् । कोऽर्थः । प्रातः प्रियायामेतानि दृष्ट्वा पुनर्नव

इव कामः संजात इत्यर्थः । तान्येव च कामबाणपञ्चकव्याजेन वस्तून्युपदिशति ।

तस्या राधाया उरो हृदयं पाटला ये पाणिजास्तैरङ्कितं दृष्ट्वा । अनेन पाटलापुष्पं

स्मरबाण उक्तः । अपि च निद्रया कषाये क्लुषिते दृशौ दृष्ट्वा । अनेन कमलाख्यः

पुष्पबाणोऽभाणि । अपि च निर्धौतोऽधरशोणिमा । तं दृष्ट्वा । अनेन बन्धुजीव पुष्पं

स्मरशरोऽगादि । अपि च विलुलितस्रस्तस्रजो मूर्धजाः । तानपि दृष्ट्वा । सस्ता स्रग्ये-

भ्यस्ते तथा । विळुलुलिताश्च ते स्रस्तस्रजश्च । अनेन मालतीदाम मीनकेतनेषुरुद्दिष्टः ।

अपि च दरश्लथाञ्चलमीषच्छुछ्लथप्रान्तं काञ्चीदाम मेखलादाम दृष्ट्वा । अनेन सुवर्ण-

जात्यादिपीतकुसुमैः कुसुमास्त्रशरो वर्णितः । एतानि दृष्ट्वा पुनः स्मरपरवशो जात

इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । अत्रापि वाक्यस्यान्यपरत्वाद्रसवदलंकारता ।

रसश्चाद्भुतोपबृंहितः शृङ्गार एव । '"यतितालेन तालेन पद्यं पाटस्वरास्तथा । स्तेना-

स्तदन्त आलापः शृङ्गारः प्रेमनिर्भरः ॥ रागो मरुकृतिर्यत्र स प्रबन्धो निगद्यते ।

कामाद्भुताभिनवता मृगाङ्कलेखाभिधानतः । (?) ॥" इति कामाद्भुताभिनवमृगाङ्कले-

खाभिधः सप्तविंशः प्रबन्धः ॥ ५ ॥ <pratika>व्याकोश इति ।</pratika> सा मुग्धकान्तिर्यत एव

विलुलिता रतिपरिमर्दिता तथापि कृष्णं घिधिनोति प्रीणयति । किं कुर्वती । सत्रपा

सती । सद्यस्तत्कालं स्वनजघनपदं पाणिना आच्छाद्य पश्यन्ती । कथं विलुलितेत्याह -
-
केशपाशः (कबरी)व्याकोशः शिथिलो जातः । अपि च अलकैश्चूर्णकुन्तलैस्तरलितमि-

तस्ततो गतम् । कपोलौ खेदमोक्षौ जातौ । अनु च बिम्बाधरकान्तिः क्लिष्टा जाता ।

अनु च हारयष्टिः कुचकलशरुचा हारिता कुतोऽपि नाशिता । अनेन कञ्चुकाभावा-

द्धारयष्टिः शरीरशोभयैव निगीर्णा । अपि च काञ्चीकान्तिर्हताशा जाता । इयमपि

वस्त्राभावात्तद्देशशोभयैव लुप्ता । निरलंकरणापि सर्वातिशायिन्या शरीरशोभयैव पत्यु-

 
-
 

 
कषाये ते दृशौ लोचने वा । निर्धौताधरशोणिमा निर्धौतश्चुम्बनादिना क्षालितो योऽध-

रस्य शोणिमा लौहित्यम् । मूर्धजा:जाः केशाश्च कीदृशाः । विलुलितस्रजो विलुलिताः

केशग्रहणपूर्वकचुम्बनादिदानेन म्लाना:नाः । अत एव स्रस्ताः शिथिलाः स्रजः पुष्पमालाः

येषु तादृशाः । काञ्चीदाम च मेखलासूत्रं च दरश्लथाञ्चलं दरमीषच्छुछ्लथं शिथिलमञ्चलं

वस्त्रप्रान्तं च ॥ ५ ॥ ( अत्र '"व्याकोश'" इत्यादि तथा '"ईषन्मीलित'" इत्यादि श्लोक-

 
[^
'.] "व्यालोल: 'लः" इति पाठः । [^ '.] "स्वेदलोलो'लौ" इति पाठः । [^ ' .] "स्पष्टा दष्टा-

रश्रीः'" इति पाठः । [^ '.] "काञ्ची काञ्चिद्गताशां स्तन'" इति पाठः । [^ ' .] "पश्यन्ती चात्म-

रूपं तदपि'" इति पाठः । [^ '.] <error>"विलुलितस्रग्धरेयं</error><fix>"विलुलितस्रग्धरेयं धिनोति"</fix> इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri