This page has not been fully proofread.

सर्गः १२ ] रसिकप्रिया-रसमञ्जर्याख्य टीकाद्वयोपेतम्
व्याकोश: केशपाशस्तरलितमलकैः स्वेदमोक्षौ कपोला
 
क्लिष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काञ्चीकान्तिर्हताशा स्तनजघनपदं पाणिनाच्छाद्य सद्यः
 
पश्यन्ती सत्रपा सा तदपि विलुलिता मुँग्धकान्तिर्धिनोति ॥६॥
 
दृशोर्लग्नास्तावद्धं मन इत्येतदद्भुतम् । कोऽर्थः । प्रतः प्रियायामेतानि दृष्ट्वा पुनर्नव
इव कामः संजात इत्यर्थः । तान्येव च कामबाणपञ्चकव्याजेन वस्तून्युपदिशति ।
तस्या राधाया उरो हृदयं पाटला ये पाणिजास्तैरङ्कितं दृष्ट्वा । अनेन पाटलापुष्पं
स्मरबाण उक्तः । अपि च निद्रया कषाये क्लुषिते दृशौ दृष्ट्वा । अनेन कमलाख्यः
पुष्पबाणोऽभाणि । अपि च निर्धौतोऽधरशोणिमा । तं दृष्ट्वा । अनेन बन्धुजीव पुष्पं
स्मरशरोऽगादि । अपि च विलुलितस्रस्तस्रजो मूर्धजाः । तानपि दृष्ट्वा । सस्ता स्रग्ये-
भ्यस्ते तथा । विळुलिताश्च ते स्रस्तस्रजश्च । अनेन मालतीदाम मीनकेतनेषुरुद्दिष्टः ।
अपि च दरश्लथाञ्चलमीषच्छुथप्रान्तं काञ्चीदाम मेखलादाम दृष्ट्वा । अनेन सुवर्ण-
जात्यादिपीतकुसुमैः कुसुमास्त्रशरो वर्णितः । एतानि दृष्ट्वा पुनः स्मरपरवशो जात
इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । अत्रापि वाक्यस्यान्यपरत्वाद्रसवदलंकारता ।
रसश्चाद्भुतोपबृंहितः शृङ्गार एव । 'यतितालेन तालेन पद्यं पाटस्वरास्तथा । स्तेना-
स्तदन्त आलापः शृङ्गारः प्रेमनिर्भरः ॥ रागो मरुकृतिर्यत्र स प्रबन्धो निगद्यते ।
कामाद्भुताभिनवता मृगाइलेखाभिधानतः । (?) ॥ इति कामाद्भुताभिनवमृगाङ्कले-
खाभिधः सप्तविंशः प्रबन्धः ॥ ५ ॥ व्याकोश इति । सा मुग्धकान्तिर्यत एव
विलुलिता रतिपरिमर्दिता तथापि कृष्णं घिनोति प्रीणयति । किं कुर्वती । सत्रपा
सती । सद्यस्तत्कालं स्वनजघनपदं पाणिना आच्छाद्य पश्यन्ती । कथं विलुलितेत्याह-
केशपाशः (कबरी)व्याकोशः शिथिलो जातः । अपि च अलकैश्चूर्णकुन्तलैस्तरलितमि-
तस्ततो गतम् । कपोलौ खेदमोक्षौ जातौ । अनु च बिम्बाधरकान्तिः क्लिष्टा जाता ।
अनु च हारयष्टिः कुचकलशरुचा हारिता कुतोऽपि नाशिता । अनेन कञ्चुकाभावा-
द्धारयष्टिः शरीरशोभयैव निगीर्णा । अपि च काञ्चीकान्तिर्हताशा जाता । इयमपि
वस्त्राभावात्तद्देशशोभयैव लुप्ता । निरलंकरणापि सर्वातिशायिन्या शरीरशोभयैव पत्यु-

 
-
 
कषाये ते दृशौ लोचने वा । निधताधरशोणिमा निर्धौतश्चुम्बनादिना क्षालितो योऽध-
रस्य शोणिमा लौहित्यम् । मूर्धजा: केशाश्च कीदृशाः । विलुलितस्रजो विलुलिताः
केशग्रहणपूर्वकचुम्बनादिदानेन म्लाना: । अत एव स्रस्ताः शिथिलाः स्रजः पुष्पमालाः
येषु तादृशाः । काञ्चीदाम च मेखलासूत्रं च दरलथाञ्चलं दरमीषच्छुथं शिथिलमञ्चलं
वस्त्रप्रान्तं च ॥ ५ ॥ ( अत्र 'व्याकोश' इत्यादि तथा 'ईषन्मीलित' इत्यादि श्लोक-
१ 'व्यालोल: ' इति पाठः । २ 'स्वेदलोलो' इति पाठः । ३ ' स्पष्टा दष्टाघ-
रश्रीः' इति पाठः । ४ 'काञ्ची काञ्चिताशां स्तन' इति पाठः । ५ ' पश्यन्ती चात्म-
रूपं तदपि' इति पाठः । ६ 'विलुलितस्रग्धरेयं इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri