This page has been fully proofread once and needs a second look.

१६४
 
गीतगोविन्दकाव्यम् [ सर्गः १२
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं

वक्षो मीलितमक्षि पौरुरसः स्त्रीणां कुतः सिध्यति ॥४॥

 
तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ

निर्धौ[^१]तोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।

काबीञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशो-

रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितेत[^२]म् ॥ ५ ॥
 
l
 

 
राक्षमता । अपि च वक्ष उत्कम्पितं हृदि कम्पो जातः । अपि च । अक्षि मीलितं

दर्शनेऽशक्तं जातम् । अत्रार्थे वृद्धसंमतिमाह -- स्त्रीणामबलानां पौरुषरसो वीररसः

कुतः सिध्यति । अपि तु न कुतोऽपि । केलौ वामानेङ्गे ललनाया दक्षिणाङ्गस्थपुंसः

भानुनाडीसंबन्धात्सुरतान्तकारी कामोद्भवो भवतीति वात्स्यायनमतवेदिनां मतम् ।

तस्मिंश्च ललनानामेवं चेष्टाः प्रसिद्धाः । अथवा रतारम्भादुपरि इति योजना । इदमेव

वाक्यं निरपेक्षं व्याख्येयम् । अत्र दोष्णोर्वल्लित्वेन विशेषणं शैथिल्ये औचितीमा-

वहति । अत्र '"विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।'" इति विशेषोक्तिरलंकारः ।

संभोगाख्यः शृङ्गारो रसः । कुतः सिध्यतीत्यनेन समरसकरणं व्यज्यते । गीत्यादि

प्रसिद्धम् । '"जयश्री संज्ञतालेन पद्यं पाटाः स्वरास्तथा । स्तेनाश्च यत्र बध्यन्ते

संभोगे रस उत्तमे ॥ रागे कर्पटबङ्गाले स पौरुषरसात्परः । प्रेम्णा विलासनामार्य
यं
प्रबन्धो माधवप्रियः ॥" इति पौरुषरसप्रेमविलासनामा षड्विंशः प्रबन्धः ॥ ४ ॥

इदानीं संभोगसंतुष्ट्याऽऽसर्गसमाप्तेः संभोगान्ते लीलामाह - - <pratika>तस्या इति ।</pratika> एभिः

पञ्चभिः कामशरैः पत्युः श्रीकृष्णस्य मनः कीलितम् । तदेतदद्भुतमाश्चर्यकारि

अभूत् । किंभूतैः कामशरैः । इत्यनेन प्रकारेण प्रातर्दृशोर्निखातैः । बाणास्तु
 
T:
 

 
सप्रायं साहसबहुलं कान्तजयाय तदुपरि तस्य कान्तस्योपरि किंचिल्लोकोत्तरं प्रारम्भि

पुरुषायितमारब्धम् । यत्संभ्रमात्संवेगात्तस्या राधिकाया जघनस्थली निष्पन्दा निश्चला

जाता । दोर्वल्लिर्बाहुलता शिथिलिता शिथिलीभूता । वक्षो हृदयमुत्कम्पितम् । अक्षि मुद्रि-

तम् । ततः स्त्रीणां पौरुषरसः पराक्रमाभिलाषः कथं सिध्यति । अपि तु न सिध्यत्येवे-

त्यर्थः । '"मारो मृतौ विषेऽनङ्गे'" इति विश्वः । '"समौ संवेगसंभ्रमौ'" इत्यमरः ॥ ४ ॥

<pratika>
तस्या इति ।</pratika> एतैः कामशरैः पत्युर्दृशोर्लोचनयोः प्रातर्निखातैर्मनः कीलितं विद्धम् ।

इत्यद्भुतमाश्चर्यम् । अन्यत्र निखातैर्वाबाणैरन्यत्कीलितमित्याश्चर्यमित्यर्थः । कैः कामशरैः ।

तस्या राधायाः पाटलेन श्वेतरक्तेन पाणिजेन नखेनाङ्कितमुरः । निद्राकषाये निद्रया

 
[^
'.] "निर्धूतोऽघर'धर" इति पाठः । [^.] अस्याग्रे क्वचिदादर्शपुस्तकेषु निम्नलिखितः

श्लोकः समुपलभ्यते -
'
-
"
त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
 

शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।

इत्थं पूर्वकथाभिरन्यमनसो निशिष्क्षिप्य वामाञ्चलं
 

राधायाः स्तनकोरकोपरि चलन्नेत्रो हरिः पातु वः ॥"
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri