2022-10-18 04:14:26 by ambuda-bot
This page has not been fully proofread.
१६४
गीतगोविन्दकाव्यम् [ सर्गः १२
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुपरसः स्त्रीणां कुतः सिध्यति ॥४॥
तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्धौतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काबीदाम दरलथाञ्चलमिति प्रातर्निखातैर्दृशो-
रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितेम् ॥ ५ ॥
l
राक्षमता । अपि च वक्ष उत्कम्पितं हृदि कम्पो जातः । अपि च । अक्षि मीलितं
दर्शनेऽशक्तं जातम् । अत्रार्थे वृद्धसंमतिमाह - स्त्रीणामबलानां पौरुषरसो वीररसः
कुतः सिध्यति । अपि तु न कुतोऽपि । केलौ वामाने ललनाया दक्षिणाङ्गस्थपुंसः
भानुनाडीसंबन्धात्सुरतान्तकारी कामोद्भवो भवतीति वात्स्यायनमतवेदिनां मतम् ।
तस्मिंश्च ललनानामेवं चेष्टाः प्रसिद्धाः । अथवा रतारम्भादुपरि इति योजना । इदमेव
वाक्यं निरपेक्षं व्याख्येयम् । अत्र दोष्णोर्वलित्वेन विशेषणं शैथिल्ये औचितीमा-
वहति । अत्र 'विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।' इति विशेषोक्तिरलंकारः ।
संभोगाख्यः शृङ्गारो रसः । कुतः सिध्यतीत्यनेन समरसकरणं व्यज्यते । गीत्यादि
प्रसिद्धम् । 'जयश्री संज्ञतालेन पद्यं पाटाः स्वरास्तथा । स्तेनाश्च यत्र बध्यन्ते
संभोगे रस उत्तमे ॥ रागे कर्पटबङ्गाले स पौरुषरसात्परः । प्रेम्णा विलासनामार्य
प्रबन्धो माधवप्रियः ॥" इति पौरुषरसप्रेमविलासनामा षड्विंशः प्रबन्धः ॥ ४ ॥
इदानीं संभोगसंतुष्ट्याऽऽसर्गसमाप्तेः संभोगान्ते लीलामाह- तस्या इति । एभिः
पञ्चभिः कामशरैः पत्युः श्रीकृष्णस्य मनः कीलितम् । तदेतदद्भुतमाश्चर्यकारि
अभूत् । किंभूतैः कामशरैः । इत्यनेन प्रकारेण प्रातर्दृशोर्निखातैः । बाणास्तु
T:
सप्रायं साहसबहुलं कान्तजयाय तदुपरि तस्य कान्तस्योपरि किंचिल्लोकोत्तरं प्रारम्भि
पुरुषायितमारब्धम् । यत्संभ्रमात्संवेगात्तस्या राधिकाया जघनस्थली निष्पन्दा निश्चला
जाता । दोर्वल्लिर्बाहुलता शिथिलिता शिथिलीभूता । वक्षो हृदयमुत्कम्पितम् । अक्षि मुद्रि-
तम् । ततः स्त्रीणां पौरुषरसः पराक्रमाभिलाषः कथं सिध्यति । अपि तु न सिध्यत्येवे-
त्यर्थः । 'मारो मृतौ विषेऽनङ्गे' इति विश्वः । 'समौ संवेगसंभ्रमौ' इत्यमरः ॥ ४ ॥
तस्या इति । एतैः कामशरैः पत्युर्दृशोर्लोचनयोः प्रातर्निखातैर्मनः कीलितं विद्धम् ।
इत्यद्भुतमाश्चर्यम् । अन्यत्र निखातैर्वाणैरन्यत्कीलितमित्याश्चर्यमित्यर्थः । कैः कामशरैः ।
तस्या राधायाः पाटलेन वेतरतेन पाणिजेन नखेनाङ्कितमुरः । निद्राकषाये निद्रया
१ 'निर्धूतोऽघर' इति पाठः । २ अस्याग्रे क्वचिदादर्शपुस्तकेषु निम्नलिखितः
श्लोकः समुपलभ्यते-
'त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसो निशिष्य वामाञ्चलं
राधायाः स्तनकोरकोपरि चलन्नेत्रो हरिः पातु वः ॥"
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri