2022-11-12 07:34:10 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः
कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥३॥
वा[^१]माङ्गे रतिकेलिसंकुलरणारम्भे तया साहस-
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्संभ्रमात् ।
प्तिमाप तत्तस्मादहो कामस्य वामा लोकपथातीता गतिश्चेष्टितम् । अत्र कमितुमिष्ट इति
कान्तशब्द औचितीमावहति । यतो दुःखवद्भवने प्रीतिमापेति । किंभूतः कान्तः ।
दोर्भ्यां संयमितो बन्धनं प्रापितः । अनु च पयोधरभरेणापीडितः आ सामस्त्येन
पीडामापितः । अनु च पाणिजैर्नखैराविद्धः । अनु च दशनैश्च क्षतमधरपुटं यस्य ।
तथा श्रोणीतटेनाहतस्ताडितः । अपि च कचे हस्तेन गृहीत्वानमितः । अपि च
अधरमधुस्यन्देनाधरमधुपानेन निमित्तेन संमोहनं प्रापितः अहो इत्याश्चर्ये । कामस्य
वामा गतिः । वामत्वं रसान्तराविर्भावात् । वीररसमाश्रित्य कृतापराधः स क्रमेण
संयमनापीडनावेधक्षताहत्यवनमनसंमोहनानि प्रापितः कामपि तृप्तिमाप । अपि तु
स्थिरोत्साहः सन् कामयुद्धान्न विररामेति न कामपीत्यर्थः । अतो वामा गतिः । अत्र
विरोधः । यस्तु कमितुमिष्टः तस्मिन्कथं संयमनादयो योज्यन्ते । संयमनादिभिश्च
शृङ्गारानुभावेष्वालिङ्गनादिषु द्योतितेषु कामपि निरतिशयां प्रीतिमापेति विरोधप-
रिहारः । अथवा कामस्य वामा इति वामेव गतिः वामानिष्टेव गतिः । यदेवं व्यति-
करेऽप्युद्रिक्तो भवति । शार्दूलविक्रीडितम् । अत्र वाक्यार्थस्य प्राधान्याद्रसस्य च
संकीर्णत्वेनाङ्गत्वाद्रसवदलंकारता । "विजयानन्दतालेन गौडीरागे विरच्यते । पद्यं पाटाः
स्वरास्तेना लीला नायकसंभवाः ॥ शृङ्गारकैशिकी रीतिः कामतृप्तिपुरःसरः । कामिनी-
हासनामायं प्रबन्धः परिकीर्तितः ॥" इति कामतृप्तिकामिनीहासनामा पञ्चविंशतितमः
प्रबन्धः ॥ ६ ॥ यदुक्तं तदेव वीरसंवलितं शृङ्गारं विवृण्वन्नाह -- <pratika>वामाङ्ग इति ।</pratika>
अयं श्लोकः पूर्ववाक्यशेषत्वेन योजनीयः । तदेत्यन्वयः । रतिकेलिसंकुलरणारम्भे
वामाङ्गे वर्तमानया राधया संभ्रमात्स्मरसमराभिनिवेशात्संयमनादिभ्य उपरि कान्त-
जयाय यत्किंचित्समरसंपल्लम्पटभटयोग्यसाहसप्रायं बालाजनायोग्यं प्रारम्भि येन
जघनस्थली निष्पन्दा इति चलितुमशक्तिः अपि च दोर्वल्लिः शिथिलिता इति प्रहा-
तया पाणिजैर्नखैराविद्धस्ताडितः । अथ च तया दशनैः क्षताधरपुटः क्षतो दष्टोऽधर-
पुटो यस्य तादृशः कृतः । अथ च तया श्रोणितटेन नितम्बेनाहत आस्फालितः । अथ
च तया हस्तेनानमितः कचे केशे धृत्वेत्यर्थात् । ततोऽधरमधुस्यन्दनेन संमोहितः ।
एवंविशिष्टोऽपि कान्तः कामप्यनिर्वचनीयां तृप्तिमाप प्राप । तदहो इत्याश्चर्ये । कामस्य
वामा विरुद्धा गतिः । यस्य बन्धनादि क्रियते स प्रीतिं न प्राप्नोति । अयं तु तादृशोऽपि
प्रीतिमाप । कामस्य विरुद्धैव रीतिरिति भावः ॥ ३ ॥ <pratika>माराङ्क इत्यादि ।</pratika> माराङ्के
मारस्य चिह्ने । युद्धपक्षे मारस्याङ्के चिह्ने । रतिकेलिसंकुलरणारम्भे रतिकेलिभिश्चुम्बना-
लिङ्गननानाबन्धादिरूपाभिः संकुले व्याप्ते रणारम्भे कामयुद्धारम्भे तया राधया साह-
[^१.] "माराङ्के" इति पाठः ।