This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: १२
 
कंथानर्मभिः ।
 
प्रत्यूहः पुलकाङ्कुरेण निविबिडाश्लेषे निमेषेण च

क्रीडाकूतविलोकितेऽधरसुधापाने
कथा[^१]नर्मभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभू-

दुद्भूतः स तयोर्बभूव सुरतारम्भः प्रियंभावुकः ॥ २ ॥

 
दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजै-
-
 

राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः । BHER

 
कारकः ॥" इति मधुरिपुमोदविद्याधरलीला नाम त्रयोविंशः प्रबन्धः ॥ ८ ॥

इदानीं सुरतारम्भं विवर्णयिषुराह - - <pratika>प्रत्यूह इति ।</pratika> तयो राधामाधवयोः स चिरं

काङ्क्षितः सुरतारम्भ उद्भूतः प्रवृद्धः सन् प्रियंभावुको बभूव । स कः । यस्मिन्सुर-

तारम्मे निबिडाश्लेषे दृढतरालिङ्गने पुलकाङ्कुरेण रोमाञ्चमात्रेणापि प्रत्यूहोऽभूत् ।

अङ्कुरग्रहणं तन्मात्रमपि आलिङ्गनान्तराय इति ज्ञापनार्थम् । आश्लेषारम्भेऽपि सालित्विको

रोमाञ्चोऽभूदिति युज्यते । अपि च यस्मिन्क्रीडाक्कृत विलोकितेऽपि निमेषेण प्रत्यू-

होऽभूत् । विलोकितं निमेषितमात्रस्याप्यसहमभूत् । अनु च अङ्गादङ्गान्तरसौन्दर्य-

दिदृक्षालोलं नेत्रं नैकत्राप्यवयवे धृतिं बन्धेति व्यज्यते । अधरसुधापाने कामकथा-

क्रीडनमन्तरायो जातः अधरपाने प्रियालापो न सोढः अतिशयेनाधरं पातुमि-

च्छोरतिप्रियालापः कोऽपि तस्मादप्यधिकरुचिर इति व्यज्यते । अपि च कामकलासु

युद्ध इव युद्धे करणात्करणान्तरारम्भे आनन्दाधिगमेनापि अन्तरायो यथा कामज-

ननाकाङ्क्षापि शिथिला भवेदिति वाच्यार्थः । कामोत्पत्तीतौ संजायमानायामत्यमनस्क
-
त्वाय तत्प्रतिबन्धककरणान्तरमारब्धमिति व्यङ्ग्योऽर्थः । अत एव प्रवृद्धत्वमुचितम् ।

शार्दूलविक्रीडितं वृत्तम् । यथासंख्यमलंकारः । संभोगाख्यः शृङ्गारो रसः । '"जयमङ्गल-

तालेन पद्यं शृङ्गारनिर्भरम् । गीताः पाटाः स्वरास्तेना उच्यन्ते यत्र रूपके ॥ देवशाखा-

भिधे रागे सुरतारम्भनामतः । चन्द्रहासप्रबन्धोऽयं प्रबन्धः प्रीतिकृद्धरेः ॥'" इति सुर-

तारम्भचन्द्रहासनामा चतुर्विंशः प्रबन्धः ॥ २ ॥ तदेव विवृणोति -- <pratika>दोर्भ्यामिति ।
</pratika>
यद्यस्मात्कारणादेतावत्यपि व्यतिकरे कान्तः कृष्णः कामपि वाचामगोचरे वर्तमानां तृ-

 
अनुपदं निगदितो मधुरिपोः कृष्णस्य मोद आनन्दो यत्र तादृशम् ॥ ८ ॥ <pratika>प्रत्यूह इति ।
</pratika>
तयो राधामाधवयोः लोकोत्तरो ललितारम्भो ललितो मनोहर आरम्भो यस्यैतादृशः

शृङ्गारक्रीडाविशेष उद्भूत उद्भटः प्रियंभावुको बभूव प्रियो बभूव । स क इत्यत

आह -- <pratika>
प्रत्यूह इत्यादि ।</pratika> यस्मिमिंल्ललितारम्भे निबिडाश्लेषे कर्तव्ये पुलकाङ्कुरेण रोमाञ्चो-

द्
गमेन प्रत्यूहो विघ्नोऽभूत् । अथ च क्रीडाकूतविलोकिते क्रीडासु यदाकूतपूर्व कमभिप्रा-

यपूर्वंकं विलोकितं तत्र निमेषेण नेत्रस्पन्दनेन प्रत्यूहोऽभूत् । अथ च अधरसुधापानेऽधरा-

मृतपाने कर्तव्ये कथानर्मभिः रहःकथाकौतुकैः प्रत्यूहोऽभूत् । अथ च मन्मथयुद्धे

सुरते आनन्दाधिगमेन आनन्दप्राप्त्या प्रत्यूहोऽभूत् ॥ २ ॥ <pratika>दोर्भ्यामिति ।</pratika> दोर्भ्यां

बाहुभ्यामर्थाद्राधया संयमितो बद्धः । अथ च तथैव पयोधरभरेण पीडितः । अथ च

 
[^
'.] "कथाकेलिभिः'" इति पाठः ।
 
"
 
-
 
आह
 
L
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri