2022-10-18 04:14:26 by ambuda-bot
This page has not been fully proofread.
गीतगोविन्दकाव्यम्
[ सर्ग: १२
कंथानर्मभिः ।
प्रत्यूहः पुलकाङ्कुरेण निविडाश्लेषे निमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभू-
दुद्भूतः स तयोर्बभूव सुरतारम्भः प्रियंभावुकः ॥ २ ॥
दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजै-
-
राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः । BHER
कारकः ॥ इति मधुरिपुमोदविद्याधरलीला नाम त्रयोविंशः प्रबन्धः ॥ ८ ॥
इदानीं सुरतारम्भं विवर्णयिषुराह - प्रत्यूह इति । तयो राधामाधवयोः स चिरं
काङ्क्षितः सुरतारम्भ उद्भूतः प्रवृद्धः सन् प्रियंभावुको बभूव । स कः । यस्मिन्सुर-
तारम्मे निबिडाश्लेषे दृढतरालिङ्गने पुलकाङ्कुरेण रोमाञ्चमात्रेणापि प्रत्यूहोऽभूत् ।
अङ्कुरग्रहणं तन्मात्रमपि आलिङ्गनान्तराय इति ज्ञापनार्थम् । आश्लेषारम्भेऽपि सालिको
रोमाञ्चोऽभूदिति युज्यते । अपि च यस्मिन्क्रीडाक्कृत विलोकितेऽपि निमेषेण प्रत्यू-
होऽभूत् । विलोकितं निमेषितमात्रस्याप्यसहमभूत् । अनु च अङ्गादङ्गान्तरसौन्दर्य-
दिदृक्षालोलं नेत्रं नैकत्राप्यवयवे धृतिं बन्धेति व्यज्यते । अधरसुधापाने कामकथा-
क्रीडनमन्तरायो जातः अधरपाने प्रियालापो न सोढः अतिशयेनाधरं पातुमि-
च्छोरतिप्रियालापः कोऽपि तस्मादप्यधिकरुचिर इति व्यज्यते । अपि च कामकलासु
युद्ध इव युद्धे करणात्करणान्तरारम्भे आनन्दाधिगमेनापि अन्तरायो यथा कामज-
ननाकाङ्क्षापि शिथिला भवेदिति वाच्यार्थः । कामोत्पत्ती संजायमानायामत्यमनस्क
त्वाय तत्प्रतिबन्धककरणान्तरमारब्धमिति व्यङ्ग्योऽर्थः । अत एव प्रवृद्धत्वमुचितम् ।
शार्दूलविक्रीडितं वृत्तम् । यथासंख्यमलंकारः । संभोगाख्यः शृङ्गारो रसः । 'जयमङ्गल-
तालेन पद्यं शृङ्गारनिर्भरम् । गीताः पाटाः स्वरास्तेना उच्यन्ते यत्र रूपके ॥ देवशाखा-
भिधे रागे सुरतारम्भनामतः । चन्द्रहासप्रबन्धोऽयं प्रबन्धः प्रीतिकृद्धरेः ॥' इति सुर-
तारम्भचन्द्रहासनामा चतुर्विंशः प्रबन्धः ॥ २ ॥ तदेव विवृणोति – दोर्भ्यामिति ।
यद्यस्मात्कारणादेतावत्यपि व्यतिकरे कान्तः कृष्णः कामपि वाचामगोचरे वर्तमानां तृ-
अनुपदं निगदितो मधुरिपोः कृष्णस्य मोद आनन्दो यत्र तादृशम् ॥ ८ ॥ प्रत्यूह इति ।
तयो राधामाधवयोः लोकोत्तरो ललितारम्भो ललितो मनोहर आरम्भो यस्यैतादृशः
शृङ्गारक्रीडाविशेष उद्भूत उद्भटः प्रियंभावुको बभूव प्रियो बभूव । स क इत्यत
— प्रत्यूह इत्यादि । यस्मिल्ललितारम्भे निबिडालेषे कर्तव्ये पुलकारेण रोमाञ्चो-
गमेन प्रत्यूहो विघ्नोऽभूत् । अथ च क्रीडाकूतविलोकिते क्रीडासु यदाकूतपूर्व कमभिप्रा-
यपूर्वंकं विलोकितं तत्र निमेषेण नेत्रस्पन्दनेन प्रत्यूहोऽभूत् । अथ च अधरसुधापानेऽधरा-
मृतपाने कर्तव्ये कथानर्मभिः रहःकथाकौतुकैः प्रत्यूहोऽभूत् । अथ च मन्मथयुद्धे
सुरते आनन्दाधिगमेन आनन्दप्राप्त्या प्रत्यूहोऽभूत् ॥ २ ॥ दोर्भ्यामिति । दोर्भ्यां
बाहुभ्यामर्थाद्राधया संयमितो बद्धः । अथ च तथैव पयोधरभरेण पीडितः । अथ च
१ 'कथाकेलिभिः' इति पाठः ।
"
-
आह
L
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri