This page has been fully proofread once and needs a second look.

सर्गः १२ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् ।

श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ क्षण० ॥६॥

 
मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम् ।
 
ले

ल[^१]ज्
जितमिव नयनं तव विरमति सृजसि वृथा रतिखेदम् ॥ क्षण० ॥७॥

 
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
 

जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ क्षण० ॥ ८ ॥
 

 
अत एव च न विद्यन्ते विलासा यस्य ५ ॥ अपि च <pratika>शशिमुखीति ।</pratika> हे शशि-

मुखि, मणिरशनागुणं मुखरय वाचालं कुरु । किंभूतं मणिरशनागुणम् । अनुगुण-

कण्ठनिनादम् । अनुगुणोऽनुरूपः अर्थादेव त्वदीयकण्ठस्य निनादो यस्य । अत एव

मम श्रुतियुगले चिरात्त्वद सङ्गमाद्वर्तमानमवसादं खेदं शमय । किंभूते श्रुतियुगले ।

तव विरहे पिकरुतेन विकलीकृते । विरहिणो हि पिकरुतं दुःश्रवं भवतीति ॥ ६ ॥

अपि च <pratika>मामिति ।</pratika> हे राधे, इदं तव नयनमधुना अवलोकितुम् । अर्थान्मां

लज्जितमिव विरमति । किंभूतं नयनम् । मामभिलक्ष्य विफलरुषा निरर्थकरोषेण

विकलीकृतम् । अविकलं विकलं कृतमिति विकलीकृतम् । अत एव वृथा रतिखेदं

सृजसि । अथवा विसृजेति पाठान्तरम् । तत्र वृथा निरर्थकम् । विसृज मुञ्च

॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> रसिकजनेषु मनोरमो यो रतिरसो रतिरागस्तस्य भाव-

स्त्ता स्थैर्यं तस्य विनोदं कौतुकं जनयतु । किंभूतमिदं श्रीजयदेवभणितम् ।

अनुपमो निगदितो मधुरिपोर्मोदो यत्र येन वा तत् । '"पदानां दर्शकं यत्र ताले

वर्णयतौ भवेत् । ध्रुवः प्रतिपदं गेयः कविनामाङ्कितात्पदात् ॥ गीतालापान्य-

थाशब्दं प्रतिताले ततः परम् । पाटास्तेनाः स्वराश्चैव शृङ्गारो रस उत्तमः ॥

देवशाखाभिधो रागः प्रबन्धे संप्रदृश्यते । श्रीविद्याधरलीलाख्यः श्रीपतिप्रीति-

 
॥ ५ ॥ <pratika> शशिमुखीति ।</pratika> हे शशिमुखि चन्द्रवदने, मणिरशनागुणं मणियुक्तकाञ्चीदाम

मुखरय सशब्दं कुरु । अनेन हंसलीलाख्यं विपरीतरतं भजस्वेति ध्वनितम् । तल्ल
-
क्षणं चोक्तं प्राक् । कीदृशं रशनागुणम् । अनुगुणं कण्ठनिनादः कण्ठशब्दो यस्य

तादृशम् । रशनागुणानुकारिकण्ठशब्दं च कुर्वित्यर्थः । अनेन शब्देन मम श्रुतियुगले

श्रोत्रयुग्मे चिरादवसादं चिरकालीनमुपतापं शमय नाशय । कीदृशे । पिकरुतेन कोकि-

लशब्देन विकले दुःखिते ॥ ६ ॥ <pratika>मामिति ।</pratika> हे राधे, मामवलोकयितुं तव नयनं

मीलति मुद्रां प्राप्नोति । किमिव । लज्जितमिव । मां कीदृशम् । अतिविफलरुषा अति-

निष्फलेन रोषेण विकलीकृतं विकलतां नीतम् । अधुनेदानीं नयनमीलने विरम विरक्ता

भव । निष्फलरोषादित्यर्थात् ॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> इदं श्रीजयदेवभणितं जयदेवेन

कथितं रसिकजनेषु मनोरमरतिरसभावविनोदं रतिः भोगः रसः शृङ्गाररसो भावाः

संचारिसात्त्विकादयस्तेषां मनोरमं विनोदं कौतुकं जनयतु । कीदृशं भणितम् ।
 

 
[^
'.] "मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम्'" इति पाठः ।
 
१६ गीत●
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri