2022-10-18 04:14:26 by ambuda-bot
This page has not been fully proofread.
सर्गः १२ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ क्षण० ॥६॥
मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम् ।
लेजितमिव नयनं तव विरमति सृजसि वृथा रतिखेदम् ॥ क्षण० ॥७॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ क्षण० ॥ ८ ॥
अत एव च न विद्यन्ते विलासा यस्य ५ ॥ अपि च शशिमुखीति । हे शशि-
मुखि, मणिरशनागुणं मुखरय वाचालं कुरु । किंभूतं मणिरशनागुणम् । अनुगुण-
कण्ठनिनादम् । अनुगुणोऽनुरूपः अर्थादेव त्वदीयकण्ठस्य निनादो यस्य । अत एव
मम श्रुतियुगले चिरात्वद सङ्गमाद्वर्तमानमवसादं खेदं शमय । किंभूते श्रुतियुगले ।
तव विरहे पिकरुतेन विकलीकृते । विरहिणो हि पिकरुतं दुःश्रवं भवतीति ॥ ६ ॥
अपि च मामिति । हे राधे, इदं तव नयनमधुना अवलोकितुम् । अर्थान्मां
लज्जितमिव विरमति । किंभूतं नयनम् । मामभिलक्ष्य विफलरुषा निरर्थकरोषेण
विकलीकृतम् । अविकलं विकलं कृतमिति विकलीकृतम् । अत एव वृथा रतिखेदं
सृजसि । अथवा विसृजेति पाठान्तरम् । तत्र वृथा निरर्थकम् । विसृज मुञ्च
॥ ७ ॥ श्रीजयदेवेति । रसिकजनेषु मनोरमो यो रतिरसो रतिरागस्तस्य भाव-
स्वत्ता स्थैर्यं तस्य विनोदं कौतुकं जनयतु । किंभूतमिदं श्रीजयदेवभणितम् ।
अनुपमो निगदितो मधुरिपोर्मोदो यत्र येन वा तत् । 'पदानां दर्शकं यत्र ताले
वर्णयतौ भवेत् । ध्रुवः प्रतिपदं गेयः कविनामाङ्कितात्पदात् ॥ गीतालापान्य-
थाशब्दं प्रतिताले ततः परम् । पाटास्तेनाः स्वराश्चैव शृङ्गारो रस उत्तमः ॥
देवशाखाभिधो रागः प्रबन्धे संप्रदृश्यते । श्रीविद्याधरलीलाख्यः श्रीपतिप्रीति-
॥ ५ ॥ शशिमुखीति । हे शशिमुखि चन्द्रवदने, मणिरशनागुणं मणियुक्तकाञ्चीदाम
मुखरय सशब्दं कुरु । अनेन हंसलीलाख्यं विपरीतरतं भजस्वेति ध्वनितम् । तल्ल॰
क्षणं चोक्तं प्राक् । कीदृशं रशनागुणम् । अनुगुणं कण्ठनिनादः कण्ठशब्दो यस्य
तादृशम् । रशनागुणानुकारिकण्ठशब्दं च कुर्वित्यर्थः । अनेन शब्देन मम श्रुतियुगले
श्रोत्रयुग्मे चिरादवसादं चिरकालीनमुपतापं शमय नाशय । कीदृशे । पिकरुतेन कोकि-
लशब्देन विकले दुःखिते ॥ ६ ॥ मामिति । हे राधे, मामवलोकयितुं तव नयनं
मीलति मुद्रां प्राप्नोति । किमिव । लज्जितमिव । मां कीदृशम् । अतिविफलरुषा अति-
निष्फलेन रोषेण विकलीकृतं विकलतां नीतम् । अधुनेदानीं नयनमीलने विरम विरक्ता
भव । निष्फलरोषादित्यर्थात् ॥ ७ ॥ श्रीजयदेवेति । इदं श्रीजयदेवभणितं जयदेवेन
कथितं रसिकजनेषु मनोरमरतिरसभावविनोदं रतिः भोगः रसः शृङ्गाररसो भावाः
संचारिसात्त्विकादयस्तेषां मनोरमं विनोदं कौतुकं जनयतु । कीदृशं भणितम् ।
१ 'मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम्' इति पाठः ।
१६ गीत●
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri