This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
 

मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ क्षण० ॥४॥

 
अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम् ।
 

त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ क्षण० ॥ ५ ॥
 
[ सर्गः १२
 

 
किमिव । वदनं सुधानिधिरिव तस्माद्गलितममृतमिव । तव विरहेण तापिताहं कथं

वदिष्यामीत्याशङ्ख्क्याह -- तत्र परस्परमुपमानोपमेयभावः । दुकूलमिव विरहम-

पनयामि विरहमिव दुकूलमपनयामि । किंभूतं दुकूलम् । उरसि वर्तमानम् । पुनः

किंभूतं दुकूलं । पयोधररोधकम् । विरहे हि पयोधरौ न वर्धेते । दुकूलमपि पयो-

धरावावृत्य तिष्ठति । अथवा पयोधरो मेघ एव रोधको यस्य विरहस्येति । मेघालोके

प्रियः समेत्य विरहं रुणद्वीधीत्युक्तिलेशः ॥ ३ ॥ अपि च । <pratika>प्रियेति ।</pratika> हे राधे,

मदुरसि कुचकलशं विनिवेशय । अत एव मनसिजतापं शोषय । कलशे संनिहिते

तापो यात्येव । किंभूतं कुचकलशम् । पुलकितं रोमाञ्चितम् । पुनः किंभूतम् । अतीव

दुःखेनावाप्यते त्वदनुग्रहं विना । पुनः किंभूतम् । प्रियपरिरम्भणाय रभसेन औत्सु-

क्येन वलितं संभक्तमिव ॥ ४ ॥ अपि च । <pratika>अधरेति ।</pratika> हे भामिनि प्रिये, चरण.
-
परिचरणपरेऽपि कोपं मुञ्च । मानापनोदाय संबोध्यते । हे कोपने, अधरसुधारसमुपनय

अर्पय । अधरवक्त्रसंयोगं कुरुष्वेत्यर्थः । मां दासं त्वदधरामृतपिपासुतया मृतमिव जीवये-

त्यर्थः । अमृतपानं हि मृतं जीवयति । दासो हि अनुपेक्षणीयो भवति । किंभूतं माम् ।

त्वयि <error>विनिहितमनसं</error><fix>विरहितमनसम्</fix> आरोपितमानसम् । अत एव विरहानलेन दग्धं वपुर्यस्य ।
 

 

 
वचनं रचय । कीदृशम् । वदनमेव सुधानिधिश्चन्द्रस्तस्माद्गलितं च्युतम् । अतस्त्व-

त्
प्रणयवाक्यम् । अथ चाप्युरसि हृदये वर्तमानं दुकूलं पट्टवस्त्रमपनयामि । कीदृशम् ।

पयोधरयो रोधकं तिरोधायकम् । कमिव विरहमिव । यथा मदिद्विरहो मयापनीतस्तथा

दुकूलमपनयामीत्यर्थः । विरहपक्षे पयोधररोधकं स्तनाश्लेषप्रतिरोधकम् ॥ ३ ॥ <pratika>प्रियेति ।
</pratika>
हे राधे, मदुरसि कुचकलशं विनिवेशय अर्पय । कीदृशम् । अतिदुरवापमति-

दुर्लभम् । पुनः कीदृशम् । पुलकितं रोमाञ्चितम् । अत्र हेतुमुत्प्रेक्षयति -- प्रियपरि
-
रम्भणरभसवलितमिव प्रियस्य परिरम्भणे आलिङ्गने यो रभस उत्साहस्तेन वलित-

मिव युक्तमिव । अपरोऽपि यो हर्षयुक्तो भवति तस्य रोमाञ्चो भवत्येवेति ध्वनि-

तम् । तेनालिङ्गनेन मनसिजतापं कामजन्यं संतापं शोषय नाशय ॥ ४ ॥

<pratika>
अधरेति ।</pratika> हे भामिनि, अधरसुधारसमधरसंबन्ध्यमृतरसमुपनय वितर । दासं मादृ-

शमनुगतं जीवय । कीदृशं मृतमिव । अन्योऽपि मृतोऽमृतपानेन जीवतीति ध्वनिः ।

मृतत्वे हेतुमाह -- <pratika>त्वयीति ।</pratika> त्वयि विनिहितमनसं त्वय्यर्पितचित्तम् । पुनः कीदृशम्

विरहानलेन त्वद्विरहरूपेणाग्निना दग्धं वपुर्यस्य तम् । अत एवाविलासं विलास-

रहितम् । अन्योऽपि यो मृतो भवति स निश्चेष्टो दग्धदेहश्च भवतीति ध्वनिः ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
-