2022-10-18 04:14:25 by ambuda-bot
This page has not been fully proofread.
गीतगोविन्दकाव्यम्
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ क्षण० ॥४॥
अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ क्षण० ॥ ५ ॥
[ सर्गः १२
किमिव । वदनं सुधानिधिरिव तस्माद्गलितममृतमिव । तव विरहेण तापिताहं कथं
वदिष्यामीत्याशङ्ख्याह- तत्र परस्परमुपमानोपमेयभावः । दुकूलमिव विरहम-
पनयामि विरहमिव दुकूलमपनयामि । किंभूतं दुकूलम् । उरसि वर्तमानम् । पुनः
किंभूतं दुकूलं । पयोधररोधकम् । विरहे हि पयोधरौ न वर्धेते । दुकूलमपि पयो-
धरावावृत्य तिष्ठति । अथवा पयोधरो मेघ एव रोधको यस्य विरहस्येति । मेघालोके
प्रियः समेत्य विरहं रुणद्वीत्युक्तिलेशः ॥ ३ ॥ अपि च । प्रियेति । हे राधे,
मदुरसि कुचकलशं विनिवेशय । अत एव मनसिजतापं शोषय । कलशे संनिहिते
तापो यात्येव । किंभूतं कुचकलशम् । पुलकितं रोमाञ्चितम् । पुनः किंभूतम् । अतीव
दुःखेनावाप्यते त्वदनुग्रहं विना । पुनः किंभूतम् । प्रियपरिरम्भणाय रभसेन औत्सु-
क्येन वलितं संभक्तमिव ॥ ४ ॥ अपि च । अधरेति । हे भामिनि प्रिये, चरण.
परिचरणपरेऽपि कोपं मुञ्च । मानापनोदाय संबोध्यते । हे कोपने, अधरसुधारसमुपनय
अर्पय । अधरवऋसंयोगं कुरुष्वेत्यर्थः । मां दासं त्वदधरामृतपिपासुतया मृतमिव जीवये-
त्यर्थः । अमृतपानं हि मृतं जीवयति । दासो हि अनुपेक्षणीयो भवति । किंभूतं माम् ।
त्वयि विनिहितमनसं आरोपितमानसम् । अत एव विरहानलेन दग्धं वपुर्यस्य ।
●
वचनं रचय । कीदृशम् । वदनमेव सुधानिधिश्चन्द्रस्तस्माद्गलितं च्युतम् । अतस्त्व-
प्रणयवाक्यम् । अथ चाप्युरसि हृदये वर्तमानं दुकूलं पट्टवस्त्रमपनयामि । कीदृशम् ।
पयोधरयो रोधकं तिरोधायकम् । कमिव विरहमिव । यथा मदिरहो मयापनीतस्तथा
दुकूलमपनयामीत्यर्थः । विरहपक्षे पयोधररोधकं स्तनाश्लेषप्रतिरोधकम् ॥ ३ ॥ प्रियेति ।
हे राधे, मदुरसि कुचकलशं विनिवेशय अर्पय । कीदृशम् । अतिदुरवापमति-
दुर्लभम् । पुनः कीदृशम् । पुलकितं रोमाञ्चितम् । अत्र हेतुमुत्प्रेक्षयति- प्रियपरि
रम्भणरभसवलितमिव प्रियस्य परिरम्भणे आलिङ्गने यो रभस उत्साहस्तेन वलित-
मिव युक्तमिव । अपरोऽपि यो हर्षयुक्तो भवति तस्य रोमाञ्चो भवत्येवेति ध्वनि-
तम् । तेनालिङ्गनेन मनसिजतापं कामजन्यं संतापं शोषय नाशय ॥ ४ ॥
अधरेति । हे भामिनि, अधरसुधारसमधरसंबन्ध्यमृतरसमुपनय वितर । दासं मादृ-
शमनुगतं जीवय । कीदृशं मृतमिव । अन्योऽपि मृतोऽमृतपानेन जीवतीति ध्वनिः ।
मृतत्वे हेतुमाह —त्वयीति । त्वयि विनिहितमनसं त्वय्यर्पितचित्तम् । पुनः कीदृशम्
विरहानलेन त्वद्विरहरूपेणाग्निना दग्धं वपुर्यस्य तम् । अत एवाविलासं विलास-
रहितम् । अन्योऽपि यो मृतो भवति स निश्चेष्टो दग्धदेहश्च भवतीति ध्वनिः ॥
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
-