This page has been fully proofread once and needs a second look.

सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १५९
करकमलेन करोमि चरणमहमागमितासि विदूरम् ।

क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ क्षण० ॥ २ ॥

 
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।

विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ क्षण ॥ ३ ॥
 

 
राधिके, अधुना मामनुसर । किंभूतं माम् । क्षणमनुगतं त्वद्दर्शनोत्सवं प्राप्तम् । अथवा

मामनुसर । किंभूतं माम् । क्षणमधुना त्वत्संभोगोत्सवमदेनानुगतं व्याप्तम् । अत्र

केचन क्षणमधुना नारायणमनुगतमनुसरेति पठन्ति । तत्र मामिति प्रकरणा
गत-
मनूद्य नारायण विशेषणत्वेनोपादेयम् । नारासु अप्सु अयनं यस्य इति कामतापो-

पशान्त्यै शीतलं मामनुसर । मया सह जलक्रीडां कुर्विति वाक्यार्थः । इति ध्रुवः ॥

अथ पदानि <pratika>किसलयेत्यादि । </pratika>हे कामिनि कामाभिकाङ्क्षिणि, किसलय शयनतले

चरणन लिन निवेशं कुरु विन्यासं कुरु । किलयानि हि नलिन विशेषान्न म्लानि-

भाञ्जि भवन्तीत्यत्रावयोरनुरूपं रतं भविष्यतीति व्यज्यते । किसलयानि हि पदप-
क्

ल्
लवस्पर्धीनीत्युक्तिलेशेन विवृणोति । इदं किसलयशयनं तव पदपल्लववैरिपराभव-

मनुभवतु । पदपल्लवावेव वैरिणौ ताभ्यां सकाशात्पराभवम् । अथवा इदं किसलय-

शयनं तव पदपल्लववैरि स्पर्धाकृत् । अतः पराभवमनुभवतु । किंभूतं शयनम् । सुवेशं

सुनेपथ्यम् । अत्र तल्पे पदपल्लवन्यासेन करणविशेषः सूचितः ॥ १ ॥ अपि च ।

<pratika>
करकमलेनेति ।</pratika> हे राधे, विदूरं बहुदूरं पन्थानमागमितासि । अतः करकम लेन

चरणमहं पूजां करोमि । शयनोपरि मां क्षणं नूपुरमिव उपकुरु । यथा नूपुरमुपक-

रोषि धारयसि तथा मामप्युपकुरु ममाप्युपकारं कुरु । चरणधारणद्वारेण चारमनु-

लक्ष्य शूरं यथा तव चरणं गच्छति तथैव विक्रान्तितिं करोति । मामपि अनुसरणे शूरं

त्वदनुसरणमेव पराक्रमो यस्य । अथवा शयनोपरि वर्तमाना त्वं मामुपकुर्विति

योजनीयम् ॥ २ ॥ अपि च । <pratika>वदनेति ।</pratika> हे राधे, अनुकूलं रतिजनकं वचनं रचय
 

 
नारायणमनुसर । हे कामिनि, किसलयशयनतले चरणकमलविनिवेशं पादपद्मार्पणं कुरु ।

इदं सुवेशमपि सम्यक्पत्ररचनादिना सुष्ठु अलंकृतमपि किसलयशयनं पराभवमनुभवतु ।

तव पदपल्लव एव यो वैरी शत्रुस्तस्मात्पराभवं पराजयमनुभवतु । यद्वा । इदं किसलयश-

यनं पराभवमनुभवतु । कीदृशम् । तव पदपल्लववैरि । विरोधीत्यर्थः ॥ १ ॥ <pratika>करकमले -

नेति ।</pratika> अहं करकमलेन निजकराम्बुजेन तव चरणं करोमि संवाहयितुमर्थात् । यद्वा

तव चरणमहमित्येकं पदम् । तथा च करकमलेन तव चरणयोर्मंहं पूजां संवाहनादि-

रूपां करोमि । कथमित्याह -- त्वं विदूरमतिदूरमागमिता आनीतासि । अर्थान्मया ।

तथा च दूरागमनजन्यं ते श्रममपनयामीति भावः । शयनोपरि शय्याया उपरि नूपुर-

मुपकुरु । नूपुरस्य परिधानेन महार्थतापादन मेवोपकारः । कीदृशं नूपुरम् ।
अनुग-
तिशूरम् । अनुगतौ तवानुसरणे शूरम् । अपरोऽपि योऽनुगतिशूरो भवति स उपक्रियत

इत्युचितमेवेति भावः । कमिव । मामिव । यथा तवानुसरणशूरं मामालिङ्गनादिनोप-

करोषि तथा <error>नूपुरमध्प्यपकुर्विंवित्यर्थः</error><fix>नूपुरमप्युपकुर्वित्यर्थः</fix> ॥ २ ॥ <pratika>वदनेति ।</pratika> हे प्रिये, अनुकूलमुचितं
 
अनुग-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri