2022-10-18 04:14:25 by ambuda-bot
This page has not been fully proofread.
सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १५९
करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ क्षण० ॥ २ ॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ क्षण ॥ ३ ॥
राधिके, अधुना मामनुसर । किंभूतं माम् । क्षणमनुगतं त्वद्दर्शनोत्सवं प्राप्तम् । अथवा
मामनुसर । किंभूतं माम् । क्षणमधुना त्वत्संभोगोत्सवमदेनानुगतं व्याप्तम् । अत्र
केचन क्षणमधुना नारायणमनुगतमनुसरेति पठन्ति । तत्र मामिति प्रकरणात
मनूद्य नारायण विशेषणत्वेनोपादेयम् । नारासु अप्सु अयनं यस्य इति कामतापो-
पशान्त्यै शीतलं मामनुसर । मया सह जलक्रीडां कुर्विति वाक्यार्थः । इति ध्रुवः ॥
अथ पदानि किसलयेत्यादि । हे कामिनि कामाभिकाङ्क्षिणि, किसलय शयनतले
चरणन लिन निवेशं कुरु विन्यासं कुरु । किमलयानि हि नलिन विशेषान्न म्लानि-
भाजि भवन्तीत्यत्रावयोरनुरूपं रतं भविष्यतीति व्यज्यते । किसलयानि हि पदप-
क्लवस्पर्धीनीत्युक्तिलेशेन विवृणोति । इदं किसलयशयनं तव पदपल्लववैरिपराभव-
मनुभवतु । पदपल्लवावेव वैरिणौ ताभ्यां सकाशात्पराभवम् । अथवा इदं किसलय-
शयनं तव पदपल्लववैरि स्पर्धाकृत् । अतः पराभवमनुभवतु । किंभूतं शयनम् । सुवेशं
सुनेपथ्यम् । अत्र तल्पे पदपल्लवन्यासेन करणविशेषः सूचितः ॥ १ ॥ अपि च ।
करकमलेनेति । हे राधे, विदूरं बहुदूरं पन्थानमागमितासि । अतः करकम लेन
चरणमहं पूजां करोमि । शयनोपरि मां क्षणं नूपुरमिव उपकुरु । यथा नूपुरमुपक-
रोषि धारयसि तथा मामप्युपकुरु ममाप्युपकारं कुरु । चरणधारणद्वारेण चारमनु-
लक्ष्य शूरं यथा तव चरणं गच्छति तथैव विक्रान्ति करोति । मामपि अनुसरणे शूरं
त्वदनुसरणमेव पराक्रमो यस्य । अथवा शयनोपरि वर्तमाना त्वं मामुपकुर्विति
योजनीयम् ॥ २ ॥ अपि च । वदनेति । हे राधे, अनुकूलं रतिजनकं वचनं रचय
नारायणमनुसर । हे कामिनि, किसलयशयनतले चरणकमलविनिवेशं पादपद्मार्पणं कुरु ।
इदं सुवेशमपि सम्यक्पत्ररचनादिना सुष्ठु अलंकृतमपि किसलयशयनं पराभवमनुभवतु ।
तव पदपलव एव यो वैरी शत्रुस्तस्मात्पराभवं पराजयमनुभवतु । यद्वा । इदं किसलयश-
यनं पराभवमनुभवतु । कीदृशम् । तव पदपल्लववैरि । विरोधीत्यर्थः ॥ १ ॥ करकमले -
नेति । अहं करकमलेन निजकराम्बुजेन तव चरणं करोमि संवाहयितुमर्थात् । यद्वा
तव चरणमहमित्येकं पदम् । तथा च करकमलेन तव चरणयोर्मंहं पूजां संवाहनादि-
रूपां करोमि । कथमित्याह - त्वं विदूरमतिदूरमागमिता आनीतासि । अर्थान्मया ।
तथा च दूरागमनजन्यं ते श्रममपनयामीति भावः । शयनोपरि शय्याया उपरि नूपुर-
मुपकुरु । नूपुरस्य परिधानेन महार्थतापादन मेवोपकारः । कीदृशं नूपुरम् ।
तिशूरम् । अनुगतौ तवानुसरणे शूरम् । अपरोऽपि योऽनुगतिशूरो भवति स उपक्रियत
इत्युचितमेवेति भावः । कमिव । मामिव । यथा तवानुसरणशूरं मामालिङ्गनादिनोप-
करोषि तथा नूपुरमध्यपकुर्विंत्यर्थः ॥ २ ॥ वदनेति । हे प्रिये, अनुकूलमुचितं
अनुग-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri