This page has been fully proofread once and needs a second look.

<bold>द्वादशः सर्गः १२</bold>
 
सुप्रीतपीताम्बरः ।
 
गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-
स्मरपरवशाकृतस्फीतस्मितस्नपिताधराम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥ १ ॥
 
<bold>विभासरागैकतालाभ्यां गीयते । प्र० ॥ २३ ॥</bold>
 
किसलयशयनतले कुरु कामिनि च[^१]रणनलिनविनिवेशम् ॥
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥ १ ॥

क्षणमधुना नारायणमनुगतमनुस[^२]र मां राधिके ॥ ध्रुवम् ॥
 
मनसि शिवमजेयं चिन्तयित्वाऽप्रमेयं
नृपतिमुकुटरत्नं कुम्भकर्णाभिधेयम् ।
वितनुत इह सम्यग्देशमार्गानुमेयं
श्रुतिपुटपरिपेयं गीतगोविन्दगेयम् ॥
इदानीं चिरकालकाङ्क्षितराधादर्शनोल्लासिमानसो हरिस्तामाह -- <pratika>गतवतीति ।</pratika> हरिः
प्रियां राधामुवाच । किंभूतां प्रियाम् । मुहुर्वारंवारं नवपल्लवानां प्रसवोऽथवा नवपल्ल-
वाश्च प्रसवाः कुसुमानि च तेषां <error>शयनम्</error><fix>शयनं</fix> तस्मिन्दत्तदृष्टिम् । किं कृत्वा । सरसं सरागं
मनो यस्या एवंभूतां दृष्ट्वा । पुनः किंभूताम् । अमन्दो यस्त्रपाभरस्तेन निर्भरो यः स्मरः
तत्परवशं यदाकूतमाशयस्तदनुविद्धं यस्मिन् तेन स्नपितोऽधरो यस्याः सा । क्व
सति । सखीसमूहे गतवति सति । स्मरवशेति वक्तव्ये परग्रहणमतिशयेन तदधीनत्व-
द्योतनाय । हरिणी वृत्तम् । अस्मिन्सर्गे स्वाधीनभर्तृका नायिका वर्णनीया । तल्लक्षणम् --
"यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभ-
र्तृका" ॥१॥ तदेव वक्ष्यमाणमाह -- <pratika>किसलयेति ।</pratika> तत्र पूर्वं ध्रुवः । <pratika>क्षणमिति ।</pratika> हे
 
<pratika>गतवतीति ।</pratika> हरिः प्रियां राधामुवाच । क्व सति । सखीवृन्दे सखीसमूहे गतवति
सति । कीदृशीम् । अमन्दत्रपाभरनिर्भरस्मरपरवशाकूतस्फीतस्मितस्नपिताधराम् । अमन्दः
क्रूरोऽथ त्रपाभरेण लज्जासमूहेन निर्भरोऽतिशयो यः स्मरः कामस्तत्परवशस्तदायत्तो
य आकूतोऽभिप्रायस्तेन स्फीतं प्रवृद्धं यत्स्मितं तेन स्नपितौ व्याप्तौ अधरौ यस्या-
स्ताम् । पुनः कीदृशीम् । सरसमनसं रसोऽनुरागस्तत्सहितं मनो यस्यास्ताम् । किं
कृत्वा । नवपल्लवप्रसवशयने नवकिसलयपुष्पमये शयने शयनीये निक्षिप्ताक्षीं निहि-
तनयनां विलोक्य दृष्ट्वा । अत्र शय्याविलोकनेन संभोगेच्छा ध्वन्यते ॥ १ ॥ <pratika>किसल-
येति ।</pratika> गीतस्यास्य विभासरागः आदितालः । गीतार्थस्तु । हे राधे, क्षणमधुनानुगतं
 
[^१.] "चरणकमल" इति पाठः । [^२.] "सर भो राधिके" इति पाठः ।