This page has not been fully proofread.

१५८
 
गीतगोविन्दकाव्यम्
 
द्वादशः सर्गः १२
सुप्रीतपीताम्बरः ।
 
गतवति सखीवृन्देऽमन्दत्रपाभर निर्भर-
स्मरपरवशाकृतस्फीतस्मितस्त्रपिताधराम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥ १ ॥
विभासरागैकतालाभ्यां गीयते । प्र० ॥ २३ ॥
किसलयशयनतले कुरु कामिनि चरणनलिन विनिवेशम् ॥
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥ १ ॥
क्षणमधुना नारायणमनुगतमनुसैर मां राधिके ॥ ध्रुवम् ॥
 
[ सर्गः १२
 
मनसि शिवमजेयं चिन्तयित्वाऽप्रमेयं
 
नृपतिमुकुटरत्नं कुम्भकर्णाभिधेयम् ।
वितनुत इह सम्यग्देशमार्गानुमेयं
 
श्रुतिपुटपरिपेयं गीतगोविन्दगेयम् ॥
 
इदानीं चिरकालकाङ्क्षतराधादर्शनोल्ला सिमानसो हरिस्तामाह - गतवतीति । हरिः
प्रियां राधामुवाच । किंभूतां प्रियाम् । मुहुर्वारंवारं नवपल्लवानां प्रसवोऽथवा नवपल्ल-
वाश्च प्रसवाः कुसुमानि च तेषां शयनम् तस्मिन्दत्तदृष्टिम् । किं कृत्वा । सरसं सरागं
मनो यस्या एवंभूतां दृष्ट्वा । पुनः किंभूताम् । अमन्दो यत्रपाभरस्तेन निर्भरो यः स्मरः
तत्परवशं यदाकूतमाशयस्तदनुविद्धं यस्मिन् तेन स्नपितोऽधरो यस्याः सा । क्व
सति । सखीसमूहे गतवति सति । स्मरवशेति वक्तव्ये परग्रहणमतिशयेन तदधीनत्व-
द्योतनाय । हरिणी वृत्तम् । अस्मिन्सर्गे स्वाधीनभर्तृका नायिका वर्णनीया । तल्लक्षणम्-
'यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभ-
र्तृका' ॥१॥ तदेव वक्ष्यमाणमाह - किसलयेति । तत्र पूर्वं ध्रुवः । क्षणमिति । हे
 
-
 
गतवतीति । हरिः प्रियां राधामुवाच । क्क सति । सखीवृन्दे सखीसमूहे गतवति
सति । कीदृशीम् । अमन्दत्रपाभर निर्भरस्मरपरवशाकूत स्फीतस्मितस्त्र पिताधराम् । अमन्दः
क्रूरोऽथ त्रपाभरेण लज्जासमूहेन निर्भरोऽतिशयो यः स्मरः कामस्तत्परवशस्तदायत्तो
य आकूतोऽभिप्रायस्तेन स्फीतं प्रवृद्धं यत्स्मितं तेन स्लपितौ व्याप्तौ अधरौ यस्या-
स्ताम् । पुनः कीदृशीम् । सरसमनसं रसोऽनुरागस्तत्सहितं मनो यस्यास्ताम् । किं
कृत्वा । नवपल्लवप्रसवशयने नवकिसलयपुष्पमये शयने शयनीये निक्षिप्ताक्षीं निहि
तनयनां विलोक्य दृष्ट्वा । अत्र शय्या विलोकनेन संभोगेच्छा ध्वन्यते ॥ १ ॥ किसल-
येति । गीतस्यास्य विभासरागः आदिताल: । गीतार्थस्तु । हे राधे, क्षणमधुनानुगतं
 
१ 'चरणकमल' इति पाठः । २ 'सर भो राधिके' इति पाठः ।