This page has been fully proofread once and needs a second look.

१६.
 
इति श्रुत्वा वचस्तस्य राजभृत्यस्य ते खलाः ।

ऊचुः प्रशस्य ते सर्वे शृणु कारणमत्र भो ॥

 
कर्नाटराजनिकटे वयं भिक्षाशिनः स्थिताः ।

तत्रायमपि चायातो धनार्थी काव्यकृद्द्विजः ॥

 
तथैकस्य गृहे चौर्यं चकारायं द्विजाधमः ।

धनिकेन गृहीत्वाथ प्रापितो राजसंनिधौ ॥

 
राजानं प्राह धनिको नायं विप्रकुलोद्भवः ।

चौरोऽयं नित्यचौर्येण कदापि पतितः प्रभो ॥

 
इदानीं मद्गृहे भृत्यैर्धृत्वा नीतस्तवान्तिके ।

इति श्रुत्वा ततो राजा चाण्डालाय समार्पयत् ॥

 
गृहीत्वेमं दुरात्मानं मम राज्याद्बहिष्कुरु ।

अन्यराज्ये तु प्रापय्य जहि खङ्ड्गेन पापिनम् ॥

 
इत्याज्ञां शिरसा कृत्वा चाण्डालस्तं प्रगृह्य च ।

गच्छंश्च प्रार्थितो भूयो द्रव्येणापि वशीकृतः ॥

 
अस्माभिरुक्तो नायं भो वध्यो युष्माभिरेव च ।

देशान्तरमवश्यं तु प्रापयित्वाङ्गुलिद्वयम् ॥

 
छित्त्वा यान्तु नृपद्वारं प्रत्ययार्थं प्रदृश्यताम् ।

इत्येतदुक्तं स्वीकृत्य नीत्वा तं राज्यतो बहिः ॥
 

 
अत्र राज्ये वने क्वापि च्छित्त्वा तत्पाणिपादकम् ।

राज्ञे प्रदर्शयामासुरिति यातं पुरा स्म भो ॥

 
ततोऽस्मानर्चयामास राज्ञः स्मृत्वात्मरक्षणम् ।

इति तेषां कथयतां तुमुलः खेऽभवद्ध्वनिः ॥

 
संपपाताशनिर्घोरं तेषां मूर्धसु तत्क्षणात् ।

ततस्ते राजभृत्यास्तु दृष्ट्वा तन्महदद्भुतम् ॥

 
क्षणात्तूष्णीं स्थिताः सर्वे संज्ञां संप्राप्य ते पुनः ।

तत्र श्रुत्वा नृपं यान्तं जयदेवस्य मन्दिरे ॥

 
तत्रैव ते गताः सर्वे गृहीत्वा धनसंचयम् ।

राजानं प्रणिपत्योचुस्ते बद्धकरसंपुटाः ॥

 
राजंस्ते साधवोऽरण्ये मृता वज्रापघाततः ।

वस्त्रादिकं गृहीत्वा तु वयमेव समागताः ॥

 
इति श्रुत्वा ततो राजा किं जातमिति चाब्रवीत् ।

ततस्ते निजप्रश्नादि वज्रपातान्तमब्रुवन् ॥

 
श्रुत्वाथ जयदेवस्तु दादाहाहा कृत्वा मुहुर्मुहुः ।

रुरोद पद्भ्यां हस्ताभ्यां छिन्नाभ्यां ताडयन्महीम्

 
तत्क्षणाज्जयदेवस्य पाणिपादं तु पूर्ववत् ।

प्रादुर्बभूव सर्वेषां पश्यतां नात्र संशयः ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
13