This page has been fully proofread once and needs a second look.

सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलाजुषो
राधाया हृदि पल्वले मनसिजक्रीडैकरङ्गस्थले ।
रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापय-
न्ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम् ॥ १२ ॥
 
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो
नामैकादशः सर्गः ॥ ११ ॥
 
म्यमनुप्रासः" इति । पाञ्चाली रीतिः । आरभटी वृत्तिः । वीरो रसः ॥ ११ ॥<pratika>सौन्द-
र्येति ।</pratika> मुकुन्दो मुदं देयात् । अर्थाद्भक्तेभ्यः । मोचयति क्लेशात्प्राणिन इति मुकुन्दः ।
किं कुर्वन् । ध्यातुर्नरस्य मानस इव मानसे राजहंससदृशतां कथयन् । कस्मात् । राधाया
हृदि पल्वले पल्वल इव पल्वले रम्योरोजसरोजखेलनरसित्वात् । रम्यौ मनोहरौ उरोजा-
वेव सरोजे तत्र खेलनं तत्र रसित्वमेकाग्रभावस्तस्मात् । पल्वले किल सरोजसंभवः ।
तत्र हंसेनैव भाव्यमिति रूपकमलंकारः । किंविशिष्टे हृदि । मनसिजः कामस्तस्य
क्रीडार्थमद्वितीयरङ्गभूमौ । किंविशिष्टाया राधायाः । निधीयत इति सौन्दर्यस्याद्वि-
तीयो निधिः सौन्दर्यैकनिधिः । पुनः किंभूतायाः । अनङ्गस्य ललना रतिः तस्या
लावण्यं तल्लीलया जुषतीति तस्या रतिरूपाया इत्यर्थः । शार्दूलविक्रीडितं छन्दः ।
प्रतिपदं रूपकमलंकारः । तल्लक्षणम् -- "किंचित्साधर्म्यसंपत्तेस्तुल्यावयवलक्षणम् ।
स्वैर्विकल्पैर्विरचितं रूपं रूपकमिष्यते" इति । आशीश्चालंकारोऽपि ॥ १२ ॥
माद्यद्दुर्दन्तिदन्तावलबलदलनोद्दण्डदोर्दण्डपिण्डो-
द्दामस्तेमानधामाभिनवनवभवद् भ्राजमानोरुकीर्तिः ।
व्याचष्ट स्पष्टसृष्टाष्टपदविवरणैः सर्गमेकादशं तं
पृथ्वीनाथः प्रथिम्ना चितपृथुमहिमा कुम्भकर्णो महेन्द्रः ॥
इति श्रीयवनीपद्मिनीभानोः श्रीमहामहेन्द्रश्रीकुम्भकर्णस्य कृतौ रसि-
कप्रियायां सानन्ददामोदरो नामैकादशः सर्गः ॥
 
सुभगम् । आकूतेन तन्मयाख्येन सुभगं मनोहरम् ॥ ९ ॥ ( अत्र <pratika>"सानन्दमिति",
"जयश्रीति", "सौन्दर्येति"</pratika> श्लोकत्रयस्य टीका नोपलब्धादर्शपुस्तके ॥ १० ॥ ११ ॥ १२॥ )
तर्कान्दोलनकर्कशापि सुमतिर्या हावभावान्विता
शृङ्गारादिरसोन्नयादिकुशला सा शंकरे केवला ।
किं शम्भोरपरत्र विश्वविजयो दृप्तस्मरद्वेषिता
देहार्धीकृतकामिनीप्रणयिता च क्वापि देशान्तरे ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां शालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामेकादशः सर्गः ॥