This page has been fully proofread once and needs a second look.

सर्गः ११ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
सौन्दर्यैकनिघेधेरनङ्गललनालावण्यलीलाजुषो
 

राधाया हृदि पल्वले मनसिजक्रीडैकरङ्गस्थले ।

रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापय-

न्ध्यातुर्मानसराजहंस निभतां देयान्मुकुन्दो मुदम् ॥ १२ ॥

 
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो

नामैकादशः सर्गः ॥ ११ ॥
 

 
म्यमनुप्रासः'" इति । पाञ्चाली रीतिः । आरभटी वृत्तिः । वीरो रसः ॥ ११ ॥ <pratika>सौन्द-

र्येति ।</pratika> मुकुन्दो मुदं देयात् । अर्थाद्भक्तेभ्यः । मोचयति क्लेशात्प्राणिन इति मुकुन्दः ।

किं कुर्वन् । ध्यातुर्नरस्य मानस इव मानसे राजहंससदृशतां कथयन् । कस्मात् । राधाया

हृदि पल्वले पल्वल इव पत्ल्वले रम्योरोजसरोजखेलनरसित्वात् । रम्यौ मनोहरौ उरोजा-

वेव सरोजे तत्र खेलनं तत्र रसित्वमेकाप्ग्रभावस्तस्मात् । पल्वले किल सरोजसंभवः ।

तत्र हंसेनैव भाव्यमिति रूपकमलंकारः । किं विशिष्टे हृदि । मनसिजः कामस्तस्य

क्रीडार्थमद्वितीयरङ्गभूमौ । किंविशिष्टाया राधायाः । निधीयत इति सौन्दर्यस्याद्वि-

तीयो निधिः सौन्दर्यैकनिधिः । पुनः किंभूतायाः । अनङ्गस्य ललना रतिः तस्या

लावण्यं तल्लीलया जुषतीति तस्या रतिरूपाया इत्यर्थः । शार्दूलविक्रीडितं छन्दः ।

प्रतिपदं रूपकमलंकारः । तल्लक्षणम् – '-- "किंचित्साधर्म्य संपत्तेस्तुल्यावयवलक्षणम् ।

स्वैर्विकल्पैर्विरचितं रूपं रूपकमिष्यते'" इति । आशीवाश्चालंकारोऽपि ॥ १२ ॥

माद्यद्दुर्दन्तिदन्तावलबलदलनोद्दण्डदोर्दण्डपिण्डो-

द्दामस्तेमानघाधामाभिनवनवभवद् भ्राजमानोरुकीर्तिः ।

व्याचष्ट स्पष्टसृष्टाष्टपदविवरणैः सर्गमेकादशं तं
 

पृथ्वीनाथः प्रथिम्ना चितपृथुमहिमा कुम्भकर्णो महेन्द्रः ॥

इति श्रीयवनी पद्मिनीभानोः श्रीमहामहेन्द्र श्रीकुम्भकर्णस्य कृतौ रसि-

कप्रियायां सानन्ददामोदरो नामैकादशः सर्गः ॥
 
१५७
 

 
सुभगम् । आकूतेन तन्मयाख्येन सुभगं मनोहरम् ॥ ९ ॥ ( अत्र '"सानन्दमिति'",
'

"
जयश्रीति'", '"सौन्दर्येति' " श्लोकत्रयस्य टीका नोपलब्धादर्शपुस्तके ॥ १० ॥ ११ ॥ १२॥ )
 
तर्कां

तर्का
न्दोलनकर्कशापि सुमतिर्या हावभावान्विता
 

शृङ्गारादिरसोन्नयादिकुशला सा शंकरे केवला ।

किं शम्भोरपरत्र विश्वविजयो दृप्तस्मरद्वेषिता
 

देहार्धीकृतकामिनी प्रणयिता च क्वापि देशान्तरे ॥
 

इति श्रीमहामहोपाध्याय श्री शंकर मिश्रविरचितायां शालिनाथकारितायां

गीतगोविन्दढीटीकायां रसमञ्जरीसमाख्यायामेकादशः सर्गः ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri