This page has not been fully proofread.

सर्गः ११ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
सौन्दर्यैकनिघेरनङ्गललनालावण्यलीलाजुषो
 
राधाया हृदि पलवले मनसिजक्रीडैकरङ्गस्थले ।
रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापय-
न्ध्यातुर्मानसराजहंस निभतां देयान्मुकुन्दो मुदम् ॥ १२ ॥
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो
नामैकादशः सर्गः ॥ ११ ॥
 
म्यमनुप्रासः' इति । पाञ्चाली रीतिः । आरभटी वृत्तिः । वीरो रसः ॥ ११ ॥ सौन्द-
र्येति । मुकुन्दो मुदं देयात् । अर्थाद्भक्तेभ्यः । मोचयति क्लेशात्प्राणिन इति मुकुन्दः ।
किं कुर्वन् । ध्यातुर्नरस्य मानस इव मानसे राजहंससदृशतां कथयन् । कस्मात् । राधाया
हृदि पल्वले पल्वल इव पत्वले रम्योरोजसरोजखेलनरसित्वात् । रम्यौ मनोहरौ उरोजा-
वेव सरोजे तत्र खेलनं तत्र रसित्वमेकाप्रभावस्तस्मात् । पल्वले किल सरोजसंभवः ।
तत्र हंसेनैव भाव्यमिति रूपकमलंकारः । किं विशिष्टे हृदि । मनसिजः कामस्तस्य
क्रीडार्थमद्वितीयरङ्गभूमौ । किंविशिष्टाया राधायाः । निधीयत इति सौन्दर्यस्याद्वि-
तीयो निधिः सौन्दर्यैकनिधिः । पुनः किंभूतायाः । अनङ्गस्य ललना रतिः तस्या
लावण्यं तल्लीलया जुषतीति तस्या रतिरूपाया इत्यर्थः । शार्दूलविक्रीडितं छन्दः ।
प्रतिपदं रूपकमलंकारः । तल्लक्षणम् – 'किंचित्साधर्म्य संपत्तेस्तुल्यावयवलक्षणम् ।
स्वैर्विकल्पैर्विरचितं रूपं रूपकमिष्यते' इति । आशीवालंकारोऽपि ॥ १२ ॥
मायद्दुर्दन्तिदन्तावलबलदलनोद्दण्डदोर्दण्डपिण्डो-
द्दामस्तेमानघामाभिनवनवभवद् भ्राजमानोरुकीर्तिः ।
व्याचष्ट स्पष्टसृष्टाष्टपदविवरणैः सर्गमेकादशं तं
 
पृथ्वीनाथः प्रथिम्ना चितपृथुमहिमा कुम्भकर्णो महेन्द्रः ॥
इति श्रीयवनी पद्मिनीभानोः श्रीमहामहेन्द्र श्रीकुम्भकर्णस्य कृतौ रसि-
कप्रियायां सानन्ददामोदरो नामैकादशः सर्गः ॥
 
१५७
 
सुभगम् । आकूतेन तन्मयाख्येन सुभगं मनोहरम् ॥ ९ ॥ ( अत्र 'सानन्दमिति',
'जयश्रीति', 'सौन्दर्येति' लोकत्रयस्य टीका नोपलब्धादर्शपुस्तके ॥ १० ॥ ११ ॥ १२॥ )
 
तर्कांन्दोलनकर्कशापि सुमतिर्या हावभावान्विता
 
शृङ्गारादिरसोन्नयादिकुशला सा शंकरे केवला ।
किं शम्भोरपरत्र विश्वविजयो दृप्तस्मरद्वेषिता
 
देहार्धीकृतकामिनी प्रणयिता च क्वापि देशान्तरे ॥
 
इति श्रीमहामहोपाध्याय श्री शंकर मिश्रविरचितायां शालिनाथकारितायां
गीतगोविन्दढीकायां रसमञ्जरीसमाख्यायामेकादशः सर्गः ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri