This page has been fully proofread once and needs a second look.

[ सर्ग: ११
 
गीतगोविन्दकाव्यम्
 
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
 

स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।

भुजापीडक्रीडाहतकुवलयापीडकरिणः
 

प्रकीर्णा सृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ११ ॥
 

 
त्वात् । अद्भुतो वाच्योऽप्यङ्गम् । यदाह – '-- "विवक्षितरसे लब्धप्रतिष्ठे तु विधायिनाम् ।
चा

वा
च्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥'" इति । विशेषतस्तु प्रस्तुत रिपोष कार्य-

सौ प्रकृति रमणीयायां तस्यामधिकतरं सौकुमार्यमाविष्करोतीत्युपरम्यते । अलंकार-

सर्वस्वमतेन।नातिशयोक्तिरलंकारः । संमददाने सानन्द मौचितीमावति पुरुषः प्रमदा-

युक्तः । शृङ्गारः ( रसः ) । वैदर्भी रीतिः । प्रसादो गुणः ॥ १० ॥ <pratika>जयश्रीति ।
</pratika>
मुरजितो भुजदण्डो जयति । मुरं दैत्यविशेषं जितवान्मुरजित् तस्य मुरजितः

कृष्णस्य दण्डाकारो बाहुः सर्वोत्कर्षेण वर्तत इत्यर्थः । सर्वोत्कृष्टत्वेन जगद्वन्द्यत्वम-

भित्र्यव्यञ्जितम् । कीदृशो भुजदण्डः । प्रकीर्णासृग्बिन्दुः विन्दुः विस्तीर्णा असृजो रुधिरस्य वि.
बि-
न्दवो यत्र स तथा । अत्र हेतुमाह -- कीदृशस्य मुरजितः । <pratika>भुजापीडेति ।</pratika> भुजा
-
पीडस्य भुजदण्डस्य क्रीडया विलासेन हतो व्यापादितः कुवलयापीडाख्यः करी गजो

येन स तस्य तथेति । यद्वा भुजापीडक्रीडया हृतश्चासौ कुवलयापीडनामा करी च

तस्येति कर्मधारयः । संबन्धे षष्ठी । तत्संबन्धिप्रकीर्ण रुधिरस्य बिन्दवो यस्मिन्भुज-

दण्डे स तथेति । क्रीडाशब्देनानायासो व्यजते । '"रुधिरेऽसृग्लो हितास्ररक्तक्षतजशो-

णितम्'" इत्यमरः । भुजहत हस्तिरुधिरविबिन्दुभुज संबन्ध उत्प्रेक्षाबी जमित्युत्प्रेक्षते ।

कीदृश इव भुजदण्डः । द्विपरणमुदा द्वाभ्यां नासामुखाभ्यां पिबतीति द्विपो हस्ती कुत्र-
व-
लयापीडः तत्सङ्गरसमदेन स्वयमात्मना सिन्दूरेण मुद्रित इवाङ्कित इव । कुवलयापीड-

करिसङ्ग्रामे साधुरयं मे बाहुरिति हर्षवशाच्छोणेन सिन्दूराङ्कितो बाहुरिति भावः ।

रणमुदेति हेत्वर्थे तृतीया । मुद्रित इति तारकादित्वादितच् । पुनरुत्प्रेक्षते ।

कीदृश इव भुजदण्डः । जयश्री विन्यस्तैर्मन्दारकुसुमैर्महित इव । जयलक्ष्म्या प्रक्षिप्त-

मन्दारकुसुमैः पूजित इव । जयसंपदि विन्यस्तैरर्थाद्देवैरिति वा । समरजयिन उपरि

पुष्पवृष्टिरुचिता । यद्वा जयश्रिया लक्ष्म्या क्षिप्तैर्मन्दारकुसुमैर्महित उत्सवं प्रापितः ।

पतिजये सति पत्नी उत्सवं करोतीत्युचितम् । कुसुमरक्तिमार्पकं मन्दारपदमौचिती-

मावहति । '"मह पूजायाम्'" इत्यस्य क्तप्रत्यये महित इति रूपम् । महं प्रापित इत्यर्थे

तारकादित्वादित च्प्रत्यय इति वा । शिखरिणी छन्दः । तल्लक्षणं संगीतराजे - '- "रसै रुदै -
शिछ
द्रै-
श्छि
न्ना यमनसभला गः शिखरिणी'" । उत्प्रेक्षालंकारः । तल्लक्षणं काव्यप्रकाशे-' -- "संभाव-

नमथोत्प्रेक्षा प्रकृतस्य समेन यत्'" इति । अनुप्रासः शब्दालंकारः । तल्लक्षणम् - '- "वर्णसा-

 
बहिर्याते सति कुञ्जद्हिर्गते सति । पुनः कथं यथा स्यात् । विहितस्मितं विहितेषद्धासं

यथा स्यात् । कीदृश्यास्तस्याः । प्रियास्यं कृष्णस्य मुखं पश्यन्त्याः । कीदृशं मुखम् ।

स्मरसरसं स्मरेण कामेन सरसं शृङ्गाररससहितम् । पुनः कीदृशम् । आ
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
कूत-