This page has not been fully proofread.

[ सर्ग: ११
 
गीतगोविन्दकाव्यम्
 
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
 
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
 
प्रकीर्णा सृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ११ ॥
 
त्वात् । अद्भुतो वाच्योऽप्यङ्गम् । यदाह – 'विवक्षितरसे लब्धप्रतिष्ठे तु विधायिनाम् ।
चाच्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥' इति । विशेषतस्तु प्रस्तुत रिपोष कार्य-
सौ प्रकृति रमणीयायां तस्यामधिकतरं सौकुमार्यमाविष्करोतीत्युपरम्यते । अलंकार-
सर्वस्वमतेन।तिशयोक्तिरलंकारः । संमददाने सानन्द मौचितीमावदति पुरुषः प्रमदा-
युक्तः । शृङ्गारः ( रसः ) । वैदर्भी रीतिः । प्रसादो गुणः ॥ १० ॥ जयश्रीति ।
मुरजितो भुजदण्डो जयति । मुरं दैत्यविशेषं जितवान्मुरजित् तस्य मुरजितः
कृष्णस्य दण्डाकारो बाहुः सर्वोत्कर्षेण वर्तत इत्यर्थः । सर्वोत्कृष्टत्वेन जगद्वन्द्यत्वम-
भित्र्यजितम् । कीदृशो भुजदण्डः । प्रकीर्णासृग्विन्दुः विस्तीर्ण असृजो रुधिरस्य वि.
न्दवो यत्र स तथा । अत्र हेतुमाह — कीदृशस्य मुरजितः । भुजापीडेति । भुजा
पीडस्य भुजदण्डस्य क्रीडया विलासेन हतो व्यापादितः कुवलयापीडाख्यः करी गजो
येन स तस्य तथेति । यद्वा भुजापीडक्रीडया हृतश्चासौ कुवलयापीडनामा करी च
तस्येति कर्मधारयः । संबन्धे षष्ठी । तत्संबन्धिप्रकीर्ण रुधिरस्य बिन्दवो यस्मिन्भुज-
दण्डे स तथेति । क्रीडाशब्देनानायासो व्यजते । 'रुधिरेऽसृग्लो हितास्ररक्तक्षतजशो-
णितम्' इत्यमरः । भुजहत हस्तिरुधिरविन्दुभुज संबन्ध उत्प्रेक्षाबी जमित्युत्प्रेक्षते ।
कीदृश इव भुजदण्डः । द्विपरणमुदा द्वाभ्यां नासामुखाभ्यां पिबतीति द्विपो हस्ती कुत्र-
लयापीडः तत्सङ्गरसमदेन स्वयमात्मना सिन्दूरेण मुद्रित इवाङ्कित इव । कुवलयापीड-
करिसङ्ग्रामे साधुरयं मे बाहुरिति हर्षवशाच्छोणेन सिन्दूरातो बाहुरिति भावः ।
रणमुदेति हेत्वर्थे तृतीया । मुद्रित इति तारकादित्वादित । पुनरुत्प्रेक्षते ।
कीदृश इव भुजदण्डः । जयश्री विन्यस्तैर्मन्दारकुसुमैर्महित इव । जयलक्ष्म्या प्रक्षिप्त-
मन्दारकुसुमैः पूजित इव । जयसंपदि विन्यस्तैरर्थाद्देवैरिति वा । समरजयिन उपरि
पुष्पवृष्टिरुचिता । यद्वा जयश्रिया लक्ष्म्या क्षिप्तैर्मन्दारकुसुमैर्महित उत्सवं प्रापितः ।
पतिजये सति पत्नी उत्सवं करोतीत्युचितम् । कुसुमरक्तिमार्पकं मन्दारपदमौचिती-
मावहति । 'मह पूजायाम्' इत्यस्य क्तप्रत्यये महित इति रूपम् । महं प्रापित इत्यर्थे
तारकादित्वादित प्रत्यय इति वा । शिखरिणी छन्दः । तल्लक्षणं संगीतराजे - 'रसै रुदै -
शिछन्ना यमनसभला गः शिखरिणी' । उत्प्रेक्षालंकारः । तल्लक्षणं काव्यप्रकाशे-'संभाव-
नमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति । अनुप्रासः शब्दालंकारः । तल्लक्षणम् - 'वर्णसा-
बहिर्याते सति कुञ्जद्वहिर्गते सति । पुनः कथं यथा स्यात् । विहितस्मितं विहितेषद्धासं
यथा स्यात् । कीदृश्यास्तस्याः । प्रियास्यं कृष्णस्य मुखं पश्यन्त्याः । कीदृशं मुखम् ।
स्मरसरसं स्मरेण कामेन सरसं शृङ्गाररससहितम् । पुनः कीदृशम् । आत
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri