This page has been fully proofread once and needs a second look.

सर्गः १भजन्त्यास्तस्पान्तं कृतकपटकण्डूतिपिहित[^१] रसिकप्रिया-
रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
भजन्त्यास्तस्पान्तं कृतकपटकण्डू तिपिहितं-

स्मितं याते गेहाद्हिरवाहितालीपरिजने ।

प्रियास्यं पश्यन्त्याः स्मरपरवशा[^२]कूतसुभगं
 

सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ९ ॥

 
सानन्दं नन्दसूनुर्दिशतु मितपरं संमदं मन्दमन्दं
 

राधामाधाय बाह्वोर्विवरमनु दृढं पीडयन्प्रीतियोगात् ।

तुङ्गौ तस्या उरोजावतनु वैव[^३]रतनोर्निर्गतौ मा स्म भूतां
 

पृष्ठं निर्भिद्य तस्माद्हिरिति वलितग्रीवमालोकयन्वः ॥ १० ॥
 
JUD
 

 
प्रापितयोः अत्र सात्विकभावान्तरित उपमालंकारः । शिखरिणी वृत्तम् ॥८॥ इदानीं

मिलितायां तस्यां सखी कृत्यमाह - - <pratika>भजन्त्या इति ।</pratika> मृगदृशो राधाया लज्जापि

अतिदूरं व्यगमत् । किंभूता लज्जा । लज्जासहिता । किंभूतायाः । प्रियास्यं पश्य-

न्त्याः । किंभूतं प्रियास्यम् । स्मरपरवशं यदाकूतमभिप्रायस्तेन सुभगं सुन्दरम् ।

पुनः किंभूतायाः । तल्पान्तं तल्पसमीपं भजन्त्या आश्रयन्त्याः । क्व सति । अवहि-

तालीपरिजने अवहितः सावधानो यः सखीलक्षणः परिजनस्तस्मिन्गेहान्निकुञ्जान्नि-

र्या
ते । कथं यथा स्यात्तथा । कृता या कपटकण्डूतिस्तया पिहितमाच्छादितं

स्मितं यथा स्यात्तथा । शिखरिणी वृत्तम् । अव्यङ्ग्यो भावो रसवदलंकारता ॥ ९ ॥

<pratika>
सानन्दमिति ।</pratika> नन्दसूनुः श्रीगोपालो वो युष्मभ्यम् । मितपरममेयं संमदं दिशतु ।

कथं यथा स्यात् । सानन्दं यथा स्यात्तथा । किं कुर्वन् । बोविँबाह्वोर्विवरमनु राधां मन्दं

मन्दमाधाय । मन्दं मन्दमिति मैनां करस्पर्शोऽपि व्याकुलीकुर्यादिति तस्याः शिरी-

षपुष्पाधिकसौकुमार्यं व्यज्यते । प्रीतियोगाद्दृढं पीडयन्नालिङ्गयन् । दृढं पीडयन्नित्य-.

त्रानुरागातिशयो व्यज्यते । तेन च तद्गतं विषयत्वं व्यज्यते । पुनः किं कुर्वन् ।

इति वलितग्रीवं यथा स्यात्तथा आलोकयन् । ते च इतीति किम् । तस्या वरतनोरतनु

शीघ्रं यथा स्यात्तथा तुझौङ्गौ उरोजौ पृष्ठं निर्भिद्य तस्माद्बहिर्निर्गतौ मा स्म भूताम् । अने-

नोरोजयोः काठिन्यं तीक्ष्णत्वं च व्यङ्ग्यम् । अथवा अतनुवरतनोरिति एकपदत्वेन अतनोः

कामस्य वरा उत्कृष्टा तनुरिति वेति । अनयैव कामो विश्वजयाय मूर्तिमानित्यर्थः ।

अत्राद्भुतो रसः । राधामाधायेत्या दिशृङ्गारः । न चानयोरन्योन्यविरोधः । अन्यपर-

 
इत्यादिश्लोकटीका नोपलब्धादर्शपुस्तके ॥ ८ ॥ ) <pratika>भजन्त्या इति ।</pratika> तस्मिन्काले तल्पान्तं

शय्यैकदेशं भजन्त्या आश्रयन्त्या मृगदृशो हरिणनयनाया राधाया लज्जापि सलज्जेव

सव्रीडेव भूत्वा दूरमतिशयेन व्यगमद्विगता । क्क सति । अवहिताली परिजने अवहितः

कृतावधानो य आलीपरिजन:नः सखी परिजनस्तस्मिन् । कृतकपटकण्डूति यथा स्यात्तथा ।
एवं यथा

कृता कपटेन व्याजेन कण्डूतिः कर्णादिकण्डूयनं यत्र
 
स्यात्त
एवं यथा
 
स्यात्तथा
 
[^
'.] "विहित'" इति पाठः । [^ '.] "स्मरसरसमाकूत'" इति पाठः । [^ '.] "तनुचलतनो: '
 
नोः"
इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri