2022-10-18 04:14:25 by ambuda-bot
This page has not been fully proofread.
सर्गः ११] रसिकप्रिया-
रसमञ्जर्याख्यटीकाद्वयोपेतम्
भजन्त्यास्तस्पान्तं कृतकपटकण्डू तिपिहितं-
स्मितं याते गेहाद्वहिरवाहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरपरवशाकूतसुभगं
सलजा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ९ ॥
सानन्दं नन्दसूनुर्दिशतु मितपरं संमदं मन्दमन्दं
राधामाधाय बाह्वोर्विवरमनु दृढं पीडयन्प्रीतियोगात् ।
तुङ्गौ तस्या उरोजावतनु वैरतनोर्निर्गतौ मा स्म भूतां
पृष्ठं निर्भिद्य तस्माद्वहिरिति वलितग्रीवमालोकयन्वः ॥ १० ॥
JUD
प्रापितयोः अत्र सात्विकभावान्तरित उपमालंकारः । शिखरिणी वृत्तम् ॥८॥ इदानीं
मिलितायां तस्यां सखी कृत्यमाह - भजन्त्या इति । मृगदृशो राधाया लज्जापि
अतिदूरं व्यगमत् । किंभूता लज्जा । लज्जासहिता । किंभूतायाः । प्रियास्यं पश्य-
न्त्याः । किंभूतं प्रियास्यम् । स्मरपरवशं यदाकूतमभिप्रायस्तेन सुभगं सुन्दरम् ।
पुनः किंभूतायाः । तल्पान्तं तल्पसमीपं भजन्त्या आश्रयन्त्याः । क्व सति । अवहि-
तालीपरिजने अवहितः सावधानो यः सखीलक्षणः परिजनस्तस्मिन्गेहान्निकुञ्जान्नि-
ते । कथं यथा स्यात्तथा । कृता या कपटकण्डूतिस्तया पिहितमाच्छादितं
स्मितं यथा स्यात्तथा । शिखरिणी वृत्तम् । अव्यङ्ग्यो भावो रसवदलंकारता ॥ ९ ॥
सानन्दमिति । नन्दसूनुः श्रीगोपालो वो युष्मभ्यम् । मितपरममेयं संमदं दिशतु ।
कथं यथा स्यात् । सानन्दं यथा स्यात्तथा । किं कुर्वन् । बोविँवरमनु राधां मन्दं
मन्दमाधाय । मन्दं मन्दमिति मैनां करस्पर्शोऽपि व्याकुलीकुर्यादिति तस्याः शिरी-
षपुष्पाधिकसौकुमार्यं व्यज्यते । प्रीतियोगादृढं पीडयन्नालिङ्गयन् । दृढं पीडयन्नित्य-.
त्रानुरागातिशयो व्यज्यते । तेन च तद्गतं विषयत्वं व्यज्यते । पुनः किं कुर्वन् ।
इति वलितग्रीवं यथा स्यात्तथा आलोकयन् । ते च इतीति किम् । तस्या वरतनोरतनु
शीघ्रं यथा स्यात्तथा तुझौ उरोजौ पृष्ठं निर्भिद्य तस्माद्बहिर्निर्गतौ मा स्म भूताम् । अने-
नोरोजयोः काठिन्यं तीक्ष्णत्वं च व्यङ्ग्यम् । अथवा अतनुवरतनोरिति एकपदवेन अतनोः
कामस्य वरा उत्कृष्टा तनुरिति वेति । अनयैव कामो विश्वजयाय मूर्तिमानित्यर्थः ।
अत्राद्भुतो रसः । राधामाधायेत्या दिशृङ्गारः । न चानयोरन्योन्यविरोधः । अन्यपर-
इत्यादिश्लोकटीका नोपलब्धादर्शपुस्तके ॥ ८ ॥ ) भजन्त्या इति । तस्मिन्काले तल्पान्तं
शय्यैकदेशं भजन्त्या आश्रयन्त्या मृगदृशो हरिणनयनाया राधाया लज्जापि सलज्जेव
सव्रीडेव भूत्वा दूरमतिशयेन व्यगमद्विगता । क्क सति । अवहिताली परिजने अवहितः
कृतावधानो य आलीपरिजन: सखी परिजनस्तस्मिन् । कृतकपटकण्डूति यथा स्यात्तथा ।
एवं यथा
कृता कपटेन व्याजेन कण्डूतिः कर्णादिकण्डूयनं यत्र
स्यात्तथा
१ 'विहित' इति पाठः । २ 'स्मरसरसमाकूत' इति पाठः । ३ 'तनुचलतनो: '
इति पाठः ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri