This page has not been fully proofread.

[ सर्ग: ११
 
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
 
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम् ॥ हरि० ॥ ८ ॥
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-
१५४
 
गीतगोविन्दकाव्यम्
 
प्रयासेनेवाक्ष्णोरमलतरतारं गमितयोः ।
इदानीं राधायाः प्रियतमसमायतसमये
 
पपात स्वेदाम्बुप्रसर इव हर्षानिकरः ॥ ८ ॥
 

 
अपि च । श्रीजयदेवेति । हे जनाः, सुचिरं हरिं हृदि विनिधाय प्रणमत ।
किंभूतं हरिम् । सुकृतोदये सारम् । पुनः किंभूतम् । श्रीजयदेवभणितो यो विभवः
सामर्थ्य तेन द्विगुणीकृतां भूषणभां शोभां ऋच्छतीति । अथवा द्विगुणीकृतां
भूषणभां रातीति । एतत्कृत्वा उक्तेष्टदो भवतीति । अथवा श्रीजयदेवभणितेन विभ
वन्विभुर्भवन्द्विगुणीकृतो भूषणानां भारः समूहो येन । जयदेवभणितं श्रुत्वा भूष-
णानामनादरोऽभूदित्यर्थः ॥ 'क्रमेण नट्टकेदार श्रीरागस्थान गौडकाः । धोरणी मालवीयश्च
वराटी मेघरागकः ॥ मालवश्रीर्देवशाखो गौण्डकृच्चाथ भैरवी । धन्नासिका वसन्तश्च
गुर्जरी च महारकः ॥ ललितः सप्तदशमो रागास्तावन्ति च क्रमात् । पदानि तेषु
तालाः स्युरितस्तन्नाम कीर्यते ॥ आद्यत्रिसप्तदशमद्वादशे द्रुतमण्ठकाः । द्वितीये नवमे
चैकादशे चैव त्रयोदशे॥ पदे पञ्चदशे सप्तदशे रूपक ईरितः । चतुर्थे प्रतितालव्या द्रुतालः
पञ्चमे स्मृतः ॥ त्रिपुटः षष्ठाष्टमयोः स्याद्रुतप्रतिमण्ठकः । चतुर्दशे षोडशे च भद्रः
स्यात्प्रतितालकम् ॥ मध्यमादौ पुनर्मुक्तिः शृङ्गारः साभिलाषयोः । स्त्रीपुंसयोरुत्तमस्य
नायकस्योपवर्णनम् ॥ 'कौशिक रीतिमाश्रित्य पदानां स्वस्वनामता । छन्दः खेच्छा-
विरचितं रूपके यत्र दृश्यते । स राणश्रेणिनामायं प्रीतिकृत्कमलापतेः ॥' इति सानन्द-
गोविन्दराग श्रेणिकुसुमाभरणनामा द्वाविंशतितमः प्रबन्धः ॥ ८ ॥ इदानीं राधाया
अपि सात्विकभावोत्पतिं दर्शयति — अतिक्रस्येति । इदानीं राधाया अक्षणो-
हेर्षा श्रुनिकरः पपात । क्व । प्रियतमसमायातसमये प्रियतमस्य समायातं समागम-
स्तस्य समये काले । क इव । अपाङ्गं नेत्रप्रान्तमतिक्रम्य श्रवणपथपर्यन्तगमनप्रया-
सेन स्वेदाम्बुपूर इव । किंभूतयोर्नेत्रयोः । प्रियदर्शनाकाङ्क्षया अतिशयेन चञ्चलत्वं
 

 
श्रीजयदेवेति । हे जनाः, हरिं प्रणमत । किं कृत्वा । सुचिरं बहुकालं व्याप्य हृदि चित्ते
विनिधाय । कीदृशम् । सुकृतोदयस्य पुण्योदयस्य सारं सारभूतम् । यद्वा सुकृतोदय
एव सारो धनं यस्मात्तम् । पुनः कीदृशम् । श्रीजयदेवस्य भणितविभवे वाग्विभवे
द्विगुणीकृतभूषणभारोऽलंकारसमूहो येन तम् । जयदेवसरस्वती स्वयमेवोत्प्रेक्षालंकार-
वती । भगवद्गुणैस्तु वर्णनीयैः सुतरामलंकृतेति भावः ॥ ८ ॥ ( अत्र 'अतिक्रम्य'
 
१ 'पतितयोः' इति पाठ: । २ 'समालोकसमये' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri