This page has been fully proofread once and needs a second look.

सर्ग: ११ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।

तिमिरोदितविधुमण्डलनिर्मलमलयज तिलक निवेशम् ॥ हरि० ॥ ६ ॥

 
विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।

मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ हरि० ॥ ७ ॥
 
१५३
 

 
तान्तः सूचितः । तदेव चिह्नयति । स्मितकान्त्या रुचिरः समुज्ज्वलितो योऽधरपल्लव-

स्तेन कृतो रतेर्लोभः संभोगतृष्णा येन । रतान्ते किल ताम्बूलादिरागहाह्रासादिना

अधर उज्ज्वलो भवतीति कृतरतिलोभमिति रतिविरतावपि पुना रताय सस्पृहत्वम् ।

एतदेव शृङ्गारसर्वस्वं यद्रतिविरतावपि न जुगुप्सेति ॥ ५ ॥ अपि च । <pratika>शशि-

किरणेति ।</pratika> किंभूतं हरिम् । शशिकिरणैः कर्बुरितोदरजलधरवत्सुन्दराः सकुसुमाः

केशा यस्य । पुनः किंभूतम् । तिमिरेऽन्धकार उदितं यद्विधुमण्डलं तद्वन्निर्मलो यो

मलयजतिलकस्तस्य निवेशो यत्र । आभ्यां विशेषणाभ्यां शशिकिरणमिलिताभ्र-

शोभया अनु च सतिमिरनवोदित चन्द्रशोभया च सुरतान्ते स्रस्तधम्मिल्लत्वं स्वेदाम्बु-

पूरैः किंचिन्मृष्टविशेषकत्वं मम भविष्यतीति मानसः प्रोत्साहः सूचितः ॥ ६॥

अपि च । <pratika>विपुलेति ।</pratika> किंभूतं हरिम् । विपुलपुलकभरैर्दन्तुरितं रोमाञ्चितम् ।

अपि च । उक्तलक्षणाभी रतिकेलिकलाभिरुपलक्षितम् । अत एव तदर्थम-

धीरम् । अपि च । किंभूतम् । मणिगणकिरणसमूहसमुज्ज्वलानि यानि भूषणानि,

तैः सुभगं शरीरं यस्य । एतेन भविष्यत्सुरतान्ते भूषणपरिग्रहो
द्योत्यते ।
'

"
सुचिर'" इत्यादौ अभिसारिका प्रगल्भा नायिका । '"हारावली'" इत्यादि आस-

र्गा
न्तं मध्या नायिका । तल्लक्षणं - '- "तुल्यलज्जास्मरा मध्या मोहान्तसुरतक्षमा'" ॥ ७ ॥
 

 

 
खचितत्वेन सूर्योपमा बोध्या । अभूतोपमा चेयम् । '"विकर्तनार्कमार्तण्ड मिहिरा-

रुणपूषणः"
इत्यमरः । पुनः कीदृशम् । स्मितस्य ईषद्धासस्य या रुचिः कान्ति-
रुणपूषण: '

स्तया रुचिरो मनोहर:रः समुल्लसितो राधाधरपानोत्कण्ठया ईषत्कम्पितो योऽधरपल्लव-

स्तेन कृतो राधाया रतिलोभः सुरतेच्छा येन तम् ॥ ५ ॥ पुनः कीदृशम् । <pratika>शशि-

किरणेति ।</pratika> शशिकिरणैश्चन्द्रकिरणैश्छुरितं
संबद्धमुदरमभ्यन्तरं
किरणेति । शशिकिरणैश्चन्द्रकिरणैश्छुरितं
यस्य तादृशो यो

जलधरो मेघस्तद्वत्सुन्दरा:राः सुकुमाराः कुसुमं पुष्पं तत्सहिताः केशा यस्य तम् ।

अत्र केशानां श्यामतया जलधरसाम्यम् । तत्र स्थितकुसुमानां मेघान्तरितचन्द्रकिरण-

साम्यं बोध्यम् । पुनः कीदृशम् । तिमिरेऽन्धकारे उदितं प्रकटीभूतं यच्चन्द्रबिम्बं तद्व-

न्निर्मलस्य मलयजतिलकस्य निवेशो विन्यासो यत्र तादृशम् । अत्र कृष्णस्य गाढान्धकार-

साम्यं ललाटस्थमण्डलाकृतितिलकस्य चन्द्रमण्डलसाम्यम् । पूर्णचन्द्रबिम्ब स्थितिकाले तिमि-

रसाम्यस्यासंभवादभूतोपमा ज्ञेया ॥ ६ ॥ पुनः कीदृशम् । <pratika>विपुलेति ।</pratika> विपुलो यः

पुलकभरो रोमाञ्चातिशयस्तेन दन्तुरितं व्याप्तम् । पुनः कीदृशम् । रतिकेलिकलाभि-

श्चु
म्बनादि विशेष चातुरीभिरधीरं चञ्चलम् । पुनः कीदृशम् । मणिगणानां मणिसमूहानां

किरणसमूहेन समुज्ज्वलानि यानि भूषणानि मुकुटाङ्गदमञ्जीरादीनि तैः सुभगं शरीरं
यस्य तम् । '

यस्य तम् । "
निम्नोन्नततया व्याप्तं दन्तुरं कथ्यते बुधैः ।'" इति धरणिः ॥ ७॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri