2022-10-18 04:14:24 by ambuda-bot
This page has not been fully proofread.
सर्ग: ११ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
तिमिरोदितविधुमण्डलनिर्मलमलयज तिलक निवेशम् ॥ हरि० ॥ ६ ॥
विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ हरि० ॥ ७ ॥
१५३
तान्तः सूचितः । तदेव चिह्नयति । स्मितकान्त्या रुचिरः समुज्वलितो योऽधरपल्लव-
स्तेन कृतो रतेर्लोभः संभोगतृष्णा येन । रतान्ते किल ताम्बूलादिरागहासादिना
अधर उज्ज्वलो भवतीति कृतरतिलोभमिति रतिविरतावपि पुना रताय सस्पृहत्वम् ।
एतदेव शृङ्गारसर्वस्वं यद्रतिविरतावपि न जुगुप्सेति ॥ ५ ॥ अपि च । शशि-
किरणेति । किंभूतं हरिम् । शशिकिरणैः कर्बुरितोदरजलधरवत्सुन्दराः सकुसुमाः
केशा यस्य । पुनः किंभूतम् । तिमिरेऽन्धकार उदितं यद्विधुमण्डलं तद्वन्निर्मलो यो
मलयजतिलकस्तस्य निवेशो यत्र । आभ्यां विशेषणाभ्यां शशिकिरणमिलिताभ्र-
शोभया अनु च सतिमिरनवोदित चन्द्रशोभया च सुरतान्ते स्रस्तधम्मिल्लत्वं स्वेदाम्बु-
पूरैः किंचिन्मृष्टविशेषकत्वं मम भविष्यतीति मानसः प्रोत्साहः सूचितः ॥ ६॥
अपि । विपुलेति । किंभूतं हरिम् । विपुलपुलकभरैर्दन्तुरितं रोमाञ्चितम् ।
अपि च । उक्तलक्षणाभी रतिकेलिकलाभिरुपलक्षितम् । अत एव तदर्थम-
धीरम् । अपि च । किंभूतम् । मणिगणकिरणसमूहसमुज्ज्वलानि यानि भूषणानि,
तैः सुभगं शरीरं यस्य । एतेन भविष्यत्सुरतान्ते भूषणपरिग्रहो
द्योत्यते ।
'सुचिर' इत्यादौ अभिसारिका प्रगल्भा नायिका । 'हारावली' इत्यादि आस-
गन्तं मध्या नायिका । तल्लक्षणं- 'तुल्यलज्जास्मरा मध्या मोहान्तसुरतक्षमा' ॥ ७ ॥
।
खचितत्वेन सूर्योपमा बोध्या । अभूतोपमा चेयम् । 'विकर्तनार्कमार्तण्ड मिहिरा-
इत्यमरः । पुनः कीदृशम् । स्मितस्य ईषद्धासस्य या रुचिः कान्ति-
रुणपूषण: '
स्तया रुचिरो मनोहर: समुल्लसितो राधाधरपानोत्कण्ठया ईषत्कम्पितो योऽधरपल्लव-
स्तेन कृतो राधाया रतिलोभः सुरतेच्छा येन तम् ॥ ५ ॥ पुनः कीदृशम् । शशि-
संबद्धमुदरमभ्यन्तरं
किरणेति । शशिकिरणैश्चन्द्रकिरणैश्छुरितं
यस्य तादृशो यो
जलधरो मेघस्तद्वत्सुन्दरा: सुकुमाराः कुसुमं पुष्पं तत्सहिताः केशा यस्य तम् ।
अत्र केशानां श्यामतया जलधरसाम्यम् । तत्र स्थितकुसुमानां मेघान्तरितचन्द्रकिरण-
साम्यं बोध्यम् । पुनः कीदृशम् । तिमिरेऽन्धकारे उदितं प्रकटीभूतं यच्चन्द्रबिम्बं तद्व-
न्निर्मलस्य मलयजतिलकस्य निवेशो विन्यासो यत्र तादृशम् । अत्र कृष्णस्य गाढान्धकार-
साम्यं ललाटस्थमण्डलाकृतितिलकस्य चन्द्रमण्डलसाम्यम् । पूर्णचन्द्रबिम्ब स्थितिकाले तिमि-
रसाम्यस्यासंभवादभूतोपमा ज्ञेया ॥ ६ ॥ पुनः कीदृशम् । विपुलेति । विपुलो यः
पुलकभरो रोमाञ्चातिशयस्तेन दन्तुरितं व्याप्तम् । पुनः कीदृशम् । रतिकेलिकलाभि-
चम्बनादि विशेष चातुरीभिरधीरं चञ्चलम् । पुनः कीदृशम् । मणिगणानां मणिसमूहानां
किरणसमूहेन समुज्ज्वलानि यानि भूषणानि मुकुटाङ्गदमजीरादीनि तैः सुभगं शरीरं
यस्य तम् । 'निम्नोन्नततया व्याप्तं दन्तुरं कथ्यते बुधैः ।' इति धरणिः ॥ ७॥
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri