This page has been fully proofread once and needs a second look.

[ सर्ग: ११
 
तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
 

स्फुट कमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ हरि० ॥ ४ ॥

 
वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम्

स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ हरि० ॥ ५ ॥
 

 

 
तस्य भरस्तेन वलयितं मूलं यस्य । अनेन गौराज्ङ्ग्यास्तव कृष्णेन लतावेष्टितालिङ्गनवि-
'

शेषे
काप्यभिख्या भविष्यतीति प्रोत्साहनम् । तल्लक्षणं यथा-'
- '
-- "प्रियमनुकृतवल्ली विभ्रमा

वेष्टयन्ती द्रुममिव सरलानीङ्गी मन्दसीत्कारदीर्घम् । वदनमुदितखेलाक्रन्दमाचुम्बनार्थं

नमयति विनताङ्गी यल्लतावेष्टितं तत्'" इति ॥ ३ ॥ अपि च । <pratika>तरलेति ।</pratika> किंभूतं

हरिम् । तरलदृगञ्चलवलनेन मनोहरं यद्वदनं तेन जनितो रतिरागो येन । अनेन

कान्ता दृष्टिरुक्ता । यथा— ' -- "आपिबन्तीव दृश्यं या सा विकाशातिनिर्मला । सभ्रू-
क्षे-
पकटाक्षा च कान्ता मन्मथवर्द्धिनी'" । कमिव । तडागमिव । किंभूतं तडागम् । शरदि

स्फुटे विकसिते कमलोदरे खेलितं खञ्जनयुगं यत्र । शरत्काले खञ्जनवर्णनमुचि-

तमेव । पद्मेऽपि खञ्जनं मिलत्येव । तदुक्तम्– ' -- "अब्जेषु गोषु गजवाजिमहोरगेषु राज्य-

प्रदः कुशलदः शुचिशाद्वलेषु'" । अत्र कमलोदरग्रहणेन पद्मासनं नाम रतिविशेषः

सूचितः । यथा—'
– '
-- "जङ्घायुगलस्य विपर्ययतः पद्मासनमुक्तमिदं युवतेः'" ॥ ४ ॥ अपि

च । <pratika>वदनेति ।</pratika> किंलक्षणं हरिम् । वदनकर्तृकपरिशीलनेन मिलितो यो मिहिर
स्तै
-
स्ते
न समे ये कुण्डले ताभ्यां शोभत इति । अनेन शारीरक सूर्यसमाकर्षणसद्भावर
 
१५२
 
गीतगोविन्दकाव्यम्
 
-
 
ज्ञातं गौरं पीतं दुकूलं पट्टवस्त्रं येन तम् । किमिव । नीलनलिनमिव श्यामकमलमिव ।

कीदृशं नीलनलिनम् । पीतो यः परागः पुष्परेणुस्तस्य पटलं समूहस्तस्य यो भरोऽति-

शयस्तेन वलितं वेष्टितं मूलं यस्य तादृशम् । अतः कृष्णस्य स्निग्धश्यामतया नीलोत्प
'
-
लसाम्यम् । पीतपट्टाम्बरस्य च मूललग्नपीतरागसाम्यम् । अथ कलेवरम् । '"गात्रं
'

वपुः संहननम्'" इत्यमरः ॥ ३ ॥ पुनः कीदृशम् । <pratika>तरलेति ।</pratika> तरलो दृगञ्चल:लः कटाक्ष-

स्तस्य चलनेन मनोहरं सुन्दरं यद्वदनं तेन जनित उत्पादितो रतिरागो राधायाः

सुरतेच्छा येन तादृशम् । कमिव । शरदि शरत्काले स्फुटकमलोदरे विकसितपद्मगर्भे

खेलितं क्रीडितं खञ्जनयुगं खञ्जरीटयुगलं यत्र तादृशं तडागमिव । अत्र कृष्णस्य राधा-

दर्शनासंक्षुभितत्वेन शरत्कालीनतडागसाम्यम् । स्मेरमुखं मन्दहास्यं च विकसितकमल-

साम्यम् । श्यामिकोपेतत्वेन परितः शुभ्रत्वेना तिचञ्चलत्वेन तन्नेत्रयोः खञ्जनसाम्यम् ।

शरत्काले जलाशयस्य कमलगर्भे खेलत्खञ्जनो दृष्टः सन्द्रष्टुर्वान्ञ्छितं प्रयच्छति ।

एवं चलदपाङ्गवत्कृष्णदर्शनं राधाया वाञ्छितं केलिसुखं दास्यतीति शरत्कालीनकमल-

मध्यस्य खञ्जनोपमानेन ध्वनितम् । तदुक्तं वराहे – '-- "हेमसमीपसिताम्बरकमलोत्पल-

पूजितोपलब्धेषु । दधिपात्रधान्यकूटे दृष्टोऽभीष्टानि चेष्टते विहगः'" इति । '"खञ्जरीटस्तु

खञ्जनः'" इत्यमरः । '"तडागस्तु जलाधार : 'रः" इति विश्वः ॥ ४ ॥ पुनः कीदृशम् ।

<pratika>
वदनेति ।</pratika> कृष्णवदनकमलस्य मुखपद्मस्य परिशीलनाय मिलितौ यौ मिहिरौ सूर्यौ

ताभ्यां समे ये कुण्डले ताभ्यां शोभा कान्तिर्यस्य तम् । अत्र कुण्डलयोर्नानामणि-
-
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri