This page has not been fully proofread.

[ सर्ग: ११
 
तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
 
स्फुट कमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ हरि० ॥ ४ ॥
वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम्
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ हरि० ॥ ५ ॥
 

 
तस्य भरस्तेन वलयितं मूलं यस्य । अनेन गौराज्यास्तव कृष्णेन लतावेष्टितालिङ्गनवि-
'काप्यभिख्या भविष्यतीति प्रोत्साहनम् । तल्लक्षणं यथा-'
- 'प्रियमनुकृतवल्ली विभ्रमा
वेष्टयन्ती द्रुममिव सरलानी मन्दसीत्कारदीर्घम् । वदनमुदितखेलाकन्दमाचुम्बनार्थं
नमयति विनताङ्गी यल्लतावेष्टितं तत्' इति ॥ ३ ॥ अपि च । तरलेति । किंभूतं
हरिम् । तरलहगञ्चलवलनेन मनोहरं यद्वदनं तेन जनितो रतिरागो येन । अनेन
कान्ता दृष्टिरुक्ता । यथा— 'आपिबन्तीव दृश्यं या सा विकाशातिनिर्मला । सभ्रू-
पकटाक्षा च कान्ता मन्मथवर्द्धिनी' । कमिव । तडागमिव । किंभूतं तडागम् । शरदि
स्फुटे विकसिते कमलोदरे खेलितं खजनयुगं यत्र । शरत्काले खञ्जनवर्णनमुचि-
तमेव । पद्मेऽपि खजनं मिलत्येव । तदुक्तम्– 'अब्जेषु गोषु गजवाजिमहोरगेषु राज्य-
प्रदः कुशलदः शुचिशाद्वलेषु' । अत्र कमलोदरग्रहणेन पद्मासनं नाम रतिविशेषः
सूचितः । यथा—'
– 'जङ्घायुगलस्य विपर्ययतः पद्मासनमुक्तमिदं युवतेः' ॥ ४ ॥ अपि
च । वदनेति । किंलक्षणं हरिम् । वदनकर्तृकपरिशीलनेन मिलितो यो मिहिर
स्तैन समे ये कुण्डले ताभ्यां शोभत इति । अनेन शारीरक सूर्यसमाकर्षणसद्भावर
 
१५२
 
गीतगोविन्दकाव्यम्
 
ज्ञातं गौरं पीतं दुकूलं पट्टवस्त्रं येन तम् । किमिव । नीलनलिनमिव श्यामकमलमिव ।
कीदृशं नीलनलिनम् । पीतो यः परागः पुष्परेणुस्तस्य पटलं समूहस्तस्य यो भरोऽति-
शयस्तेन वलितं वेष्टितं मूलं यस्य तादृशम् । अतः कृष्णस्य स्निग्धश्यामतया नीलोत्प
'लसाम्यम् । पीतपट्टाम्बरस्य च मूललग्नपीतरागसाम्यम् । अथ कलेवरम् । 'गात्रं
'वपुः संहननम्' इत्यमरः ॥ ३ ॥ पुनः कीदृशम् । तरलेति । तरलो दृगञ्चल: कटाक्ष-
स्तस्य चलनेन मनोहरं सुन्दरं यद्वदनं तेन जनित उत्पादितो रतिरागो राधायाः
सुरतेच्छा येन तादृशम् । कमिव । शरदि शरत्काले स्फुटकमलोदरे विकसितपद्मगर्भे
खेलितं क्रीडितं खञ्जनयुगं खञ्जरीटयुगलं यत्र तादृशं तडागमिव । अत्र कृष्णस्य राधा-
दर्शनासंक्षुभितत्वेन शरत्कालीनतडागसाम्यम् । स्मेरमुखं मन्दहास्यं च विकसितकमल-
साम्यम् । श्यामिकोपेतत्वेन परितः शुभ्रत्वेना तिचञ्चलत्वेन तन्नेत्रयोः खञ्जनसाम्यम् ।
शरत्काले जलाशयस्य कमलगर्भे खेलत्खञ्जनो दृष्टः सन्द्रष्टुर्वान्छितं प्रयच्छति ।
एवं चलदपाङ्गवत्कृष्णदर्शनं राधाया वाञ्छितं केलिसुखं दास्यतीति शरत्कालीनकमल-
मध्यस्य खञ्जनोपमानेन ध्वनितम् । तदुक्तं वराहे – 'हेमसमीपसिताम्बरकमलोत्पल-
पूजितोपलब्धेषु । दधिपात्रधान्यकूटे दृष्टोऽभीष्ट नि चेष्टते विहगः' इति । 'खञ्जरीटस्तु
खञ्जनः' इत्यमरः । 'तडागस्तु जलाधार : ' इति विश्वः ॥ ४ ॥ पुनः कीदृशम् ।
वदनेति । कृष्णवदनकमलस्य मुखपद्मस्य परिशीलनाय मिलितौ यौ मिहिरौ सूर्यौ
ताभ्यां समे ये कुण्डले ताभ्यां शोभा कान्तिर्यस्य तम् । अत्र कुण्डलयोर्नानामणि-
-
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri